SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विशेषा. वृहद्वात्तिः। ॥१०५८॥ तच सामायिकम् , 'गुणो तओ भिन्नो त्ति' स च सामायिकगुणस्ततो जीवद्रव्याद् भिन्नः, षष्ठीनिर्देशान्यथानुपपत्तेः । तस्मात् पर्यायनयमतेन भिन्नद्रव्य-पर्यायोभयसद्भावाद् मदीयमेव व्याख्यानं श्रेय इति परस्याकूतमिति ॥२६६०॥ अत्रोत्तरमाहउप्पाय-भंगुराणं पइक्खणं जो गुणाण संताणो । दव्योवयारमेत्तं जइ कीरइ तम्मि तन्नाम ॥ २६६१ ॥ तब्भेयकप्पणाओ तं तस्स गुणो त्ति होउ सामइयं । पत्तस्स नलिया जह तस्संताणोदियत्थमिया ॥२६६२॥ व्याख्या-- अत्र परं पृच्छामः- ननु पर्यायार्थिकनयमतेन द्रव्यं पारमार्थिकं त्वयेष्यते, कल्पनाशिल्पिनिर्मितं वा । यद्याद्यः पक्षः, स न युक्तः, 'जह पजायनउ चिय' इत्यादिना प्रतिविहितत्वात् । अथ द्वितीयपक्षः, तत्रोच्यते- गुणानां यः संतानो गुणानां या सभागसंततावनवरतप्रवृत्तिः । किंविशिष्टानाम् । प्रतिक्षणमुत्पादभङ्गुराणाम् । तस्मिन् यदि समानबुद्धयभिधानहेतुत्वेन निवन्धनेन द्रव्योपचारमात्रं क्रियते षष्ठीवादिना भवता, तदा 'तन्नाम त्ति' 'नाम' इत्यभ्युपगमे, मन्यामहे तदित्यर्थः। न हि कल्पितसद्भावापादनेऽस्माकं किश्चित् क्ष्यत इति । ततश्च 'तम्भेयकप्पणाउ ति' तेन कल्पितद्रव्येण सह भेदस्त दस्तस्य कल्पनं तद्भेदकल्पनं तस्मात् सकाशात् तत् सामायिकं तस्य कल्पितजीवद्रव्यस्य गुणो भवतु, को निवारयिता ? | कस्य यथा को गुणः ? इत्याह- 'पत्तस्सेत्यादि' यथा गुणसमुदयव्यतिरिक्तस्य कल्पितस्य पत्रद्रव्यस्य नीलतादिर्गुणः । कथंभूता नीलता? इत्याह- 'तस्संताणेत्यादि' तस्मिन्नेव पत्रसंतान उदिता समुत्पन्ना, अस्तमिता च विनष्टेति । इदमुक्तं भवति- यथा कल्पितस्य पत्रादेव्यस्य नीलतादयो गुणा भिन्ना व्यपदिश्यन्ते तथा यद्यत्रापि परिकल्पितस्य जीवद्रव्यस्य सामायिक गुण उच्यते तदा सिद्धसाध्यतैवेति । न च वक्तव्यम्- वास्तव एव संबन्धिवस्तुद्वये षष्ठी दृश्यते, यथा 'देवदत्तस्य गावः' इत्यादि, एवमत्रापि वास्तवयोरेव द्रव्य-गुणयोः संबन्धे षष्ठी युज्यते न तु द्रव्यस्य कल्पनायामिति; 'राहोः शिरः' 'शिलापुत्रकस्य शरीरम्' इत्यादिभिर्व्यभिचारादिति ।। २६६१ ॥ २६६२ ॥ ___ आह- ननु गुण-संतानयोरभेद एव तद्भेदनिबन्धनधर्मभेदाभावाद् घटते, तत्स्वरूपवत् , तत् कथं कल्पितस्यापि गुणव्यति। रेकिणो द्रव्यस्य सद्भावः । तदयुक्तम् , 'धर्मभेदाभावात्' इत्येतस्य हेतोरसिद्धत्वात् । कथम् ? इत्याह१ उत्पाद-मीराणां प्रतिक्षणं यो गुणानां संतान: । द्रव्योपचारमान यदि क्रियते तमिस्तनाम ॥ २६६१ ॥ ॥१०५८॥ तभेदकल्पनात् तत् तस्य गुण इति भवतु सामायिकम् । पत्रस्य नीलता यथा तत्सन्तानोदितास्तमिता ॥ २६६२ ॥ PRE Jan Education Internage For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy