SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ विशेषा० ।।१०५९।। Jain Education internat उपाय-भंगुरा जं गुणा य न य सो त्ति ते य तप्पभवा । न य सो तप्पभवो त्ति य जुज्जइ तं तदुवयाराओ ॥ यद् यस्मादुत्पादभङ्गुरा गुणा उत्पद्यन्ते व्ययन्ते चेत्यर्थः । 'न य सो त्ति' न पुनरसौ संतान उत्पादभङ्गुरः, तस्य प्रवाहनित्यतया स्थितत्वात् इत्येको गुण- संतानयोर्धर्मभेदः । तथा, 'ते य तप्पभवेत्यादि' ते सामायिकादयो नीलतादयो वा गुणास्तत्रैव संताने समुत्पन्नत्वात् तत्प्रभवास्तस्मात् संतानाल्लब्धात्मजन्मानः, न पुनरसौ संतानस्तत्प्रभवो गुणेभ्यो लब्धात्मलाभः, तस्य गुणसादृश्यनिबन्धनत्वात् । तदेवं कारणमेव संतानो न कार्यम्, कार्यमैव च गुणा न कारणम्, इत्येवमपि गुण-संतानयोर्धभेदे युज्यते घटते तत्- जीवादिद्रव्यम् । कुतः १ । तत्र गुणसंताने समानबुद्ध्यभिधाननिबन्धनत्वेनोपचारः कल्पना तदुपचारस्तस्मादिति । तदेवं पर्यायार्थिकनयमतं समर्थ्य पूर्व 'तम्हा किं सामइयं हवेज्ज' इत्यादिनोपसंहारः कृतः ।। २६६३ ॥ अथ प्रकारान्तरेण तं कुर्वन्नाह— अहवोदासीणमयं दव्वनयं पइ न जीवओ भिन्नं । भिन्नमियरं पइ जओ नत्थि तदत्थंतरं जीवो || २६६४ || इदमत्र हृदयम्- तस्मात् 'किं सामायिकं द्रव्यं गुणो वा भवेत् ?" इत्यस्यां चिन्तायामुक्तम्- 'देव्वद्वियस्स दव्वं गुणो यतं पज्जवनयस्स' इति । अथवा, नास्यां द्रव्य-गुणचिन्तायामिदमुक्तम्, किन्तु 'किं सामायिकम् ?" इति द्वारे प्रस्तुत उदासीनमतमिदम्द्रव्य-पर्यायास्तिकयोरेकतरमतेऽभिनिविष्टवत उदासीनवृत्तिनाऽऽवार्येण शिष्यान् प्रत्यभिहितं युक्तिभिश्च समर्थितमिदमित्यर्थः । किम् ? इत्याह- 'दव्वनयमित्यादि' द्रव्यनयं प्रति द्रव्यनयाभिप्रायेणेत्यर्थः, जीवात् सामायिकं न भिन्नम्, किन्तु जीव एव सामायिकम्, तदभिप्रायेण वक्ष्यमाणयुक्त्या जीवादेर्द्रव्यस्यैव सत्त्वात्, गुणानां तु तद्व्यतिरेकिणां परमार्थतोऽसत्त्वादिति । इतरं तु पर्यायार्थिकनयं प्रति पर्यायार्थिकनयाभिप्रायेण भिन्नं जीवद्रव्यात् सामायिकम् यतो यस्मात् पूर्वोक्तयुक्तिभिर्नास्ति तेभ्यः सामायिकादिगुणेभ्योऽर्थान्तरं भिन्नो जीवः, तन्मतेन जीवादेर्द्रव्यस्य कल्पनामात्रेणैव सत्त्वादिति । तत्र 'पॅज्जायनमयमिणं' इत्यादिना ग्रन्थेन विस्तरतः पर्यायार्थिकनयमतमुपदर्शितम् || २६६४ ॥ १ उत्पाद भकुरा यद् गुणाश्च न च स इति ते च तत्प्रभवाः । न च स तत्प्रभव इति च युज्यते तत् तदुपचारात् ॥ २६६३ ।। २ गाथा २६५८ । ३ अथवोदासीनमतं द्रव्यनयं प्रति न जीवतो भिन्नम् । भिन्नमितरं प्रति यतो नास्ति तदर्थान्तरं जीवः ।। २६६४ ॥ ४ गाथा २६४६ । For Personal and Private Use Only बंबव बृहद्वत्तिः । ॥१०५९ ।। www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy