________________
बृहद्वत्तिः।
विशेषा ॥१०६०॥
अथ द्वितीयस्य द्रव्यार्थिकनयस्याभिप्राय सविस्तर दिदर्शयिषुराहबीयस्स दव्वमेत् नत्थि तदत्थंतरं गुणो नाम | सामन्नावत्थाणाभावाओ खरविसाणं व ॥ २६६५ ॥
आविब्भाव-तिरोभावमेत्तपरिणामि दव्वमेवेयं । निच्चं बहुरूवं पि य नडो ब्व वसंतरावन्नो ॥ २६६६॥
व्याख्या-प्रथमनिर्दिष्टपर्यायार्थिकनयापेक्षया द्वितीयस्य द्रव्यार्थिकनयस्य सर्व सुवर्ण-रजतादिकं द्रव्यमात्रमेवास्ति, गुणस्तु रक्तत्व-वतत्वादिकस्तदर्थान्तरभूतो नास्ति, तस्य सामान्यरूपतयाऽवस्थानाभावात् , खरविषाणवदिति । एतदेवाह- आविर्भावश्च | कुण्डलादिरूपेण, तिरोभावश्च मुद्रिकादिभावेन, आविर्भाव-तिरोभावी, तावेव तन्मात्रम् , तेन परिणन्तुं परिवर्तितुं शीलं यस्य तदाविर्माव-तिरोभावमात्रपरिणामि सुवर्णादिकं द्रव्यमेवेदमस्ति, न तु तदतिरिक्ता गुणाः । कथंभूतं द्रव्यम् । नित्यमविचलितस्वभावम् , बहुरूपं च कङ्कणा-द-कुण्डल-मुद्रिकादिबहुपरिणामम् , राम-रावण-भीमा-ऽर्जुनादिसंबन्धीनि वेषान्तराण्यापन्नः प्राप्तो नट इवेति । यथा हि बहून् वेषान् कुर्वन्नपि नटो निजं देवदत्तादिस्वभावं न जहाति, सर्वावस्थास्वपि तस्यैकस्वरूपत्वात् ; एवं सुवर्णादिकं द्रव्यमपि कङ्कणादिबहुरूपाण्यापन्नमपि सुवर्णादिरूपता न परित्यजतीति न तव्यतिरेकिणः केचनापि गुणाः ॥ इत्यष्टादशगाथार्थः ॥ २६६५ ॥ २६६६ ॥
अस्यैव द्रव्यार्थिकनयमतस्य समर्थनार्थ नियुक्तिकारोऽप्याह
जं जं जे जे भावे परिणमइ पओग-वीससादव्वं । तं तह जाणाइ जियो अपज्जवे जाणणा नत्थि ॥२६६७||
प्रयोगश्चेतनावतो व्यापारः, विस्रसा स्वभावस्ताभ्यां निष्पन्नं द्रव्यं प्रयोग-विलसाद्रव्यमुच्यते । तत्र प्रयोगनिष्पन्न घट-पटादि, विससानिष्पन्न त्वभ्रे-न्द्रधनुरादि। तत्र प्रयोग-विस्रसाद्रव्यं कर्तृ यान् यान् कृष्ण-रक्त-पीत-शुक्लत्वादीन् भावान् पर्यायान् परिणमति प्रतिपद्यते, 'तं तह त्ति' वीप्साप्रधानत्वाद् निर्देशस्य तत् तत् तथा तेन तेन रूपेण परिणमद् द्रव्यमेव जानाति, जिनः केवली, न पुनस्तदतिरिक्तान् पर्यायानिति भावः, तेषामुत्प्रेक्षामात्रेणैव सत्त्वात् । न झुत्फण-विफण-कुण्डलिताद्यवस्थायामपि सर्पादिद्रव्यस्य
. द्वितीयस्य द्रव्यमा नास्ति तदर्थान्तरं गुणो नाम । सामान्यावस्थानाभावात् खरविषाणमिव ॥ २६६५ ॥
भाविभाव-तिरोभावमाप्रपरिणामि द्रव्यमेवेदम् । नित्यं बहुरूपमपि च भट इव वेषान्तरापनः ॥ २६५६॥ २ यद् यद् यान् वान् भावान् परिणमते प्रयोग-विस्रसानग्यम् । सूत तथा जानाति जिनोऽपर्यवे ज्ञानशा नास्ति ॥ २६॥
।
॥१०६०॥