________________
विशेषा०
वृत्तिः
॥१०६१॥
स्वस्वरूपव्यतिरिक्तः कोऽपि पर्यायः संलक्ष्यते, सर्वावस्थास्वविचलितस्वरूपस्य सर्पादिद्रव्य स्यैव संलक्षणादिति । यदि पर्याया न Lal विद्यन्ते, तर्हि कथमुच्यते 'जे जे भाचे परिमणई ? इत्याशक्याह- 'अपजवे जाणणा नत्थि त्ति' अपर्याये पर्यायरहिते वस्तुनि केवस्वादीनां परिज्ञा नास्तीति मन्यामहे, केवलमुत्प्रेक्षामात्रेणैव ते पर्यायाः, न पुनव्व्यव्यतिरेकिणः केचनापि वास्तवास्ते विद्यन्ते । अतो द्रव्यमेच परमार्थसत् ॥ इति नियुक्तिगाथार्थः ।। २६६७ ॥
अथ भाष्येणता ब्याचष्टे
जे जाहे जं भावं परिमणइ तयं तया तओऽणन्नं । परिणइमेत्तविसिह दव्वं चिय जाणइ जिणिंदो ॥२६६८॥
इह यद् घटे-न्द्रधनुरादि द्रव्यं यदा यस्मिन् काले यं रक्त-श्वेतादिभावं पर्यायं परिणपति पामोति तत् तदा ततः पर्यायादनन्यदभिन्नं सद् द्रव्यमेव, परिणतिमात्रविशिष्टमविचलितस्वरूपं जानाति जिनेन्द्रः केवलीति ॥ २६६८ ॥
ननु यदि पर्याया वस्तुसन्तो न भवन्ति, तर्हि कथमविशिष्टेऽपि सुवर्णादिद्रव्ये कुण्डला-ऽङ्गुलीयक-नूपुरादयो व्यपदेशाः प्रवर्तन्ते । न चैते निर्निबन्धना एव, अतिप्रसङ्गादित्याशड्क्याह
ने सुवण्णादन्नं कुंडलाइ तं चेय तं तमागारं । पत्तं तव्यवएस लभइ सरूवादभिन्नं ति ॥ २६६९ ॥
न सुवर्णादन्यो व्यतिरिक्तः कुण्डलादिरर्थोऽस्ति, येन सुवर्णादिद्रव्यव्यतिरेकिणः कुण्डलादिपर्याया भवेयुः, किन्तु तदेव सुवर्णादि द्रव्यं तं तं कुण्डल-कङ्कणाद्याकारं प्राप्तं सत् तस्य तस्य कुण्डलाद्याकारस्य व्यपदेशं लभते । कयंभूतम् । पूर्वावस्थास्वरूपादुत्तरावस्थायामभिन्नपप्यविचलितस्वभावमपीति । ततश्च नैते सुवर्णादिद्रव्ये कुण्डल-कङ्कणादयो व्यपदेशा निर्निबन्धनाः, तत्तद्विशिष्टाकारनिबन्धनत्वात् । न च तदाकारस्य द्रव्याद् भिन्नत्वम् , द्रव्यस्य निराकारत्वप्रसङ्गात् । तस्मादनन्यत्वं गुणानामिति ।। २६६९ ॥
अथान्यत्वमिष्यते, तत्राह-- जैइ वा व्वादन्ने गुणादओ नूण सप्पएसत्तं । होज्ज व रूवाईणं विभिन्नदेसोवलंभो वि ॥ २६७० ॥
१०६१॥
, यद् यदा यं भावः परिणमते तत् तदा ततोऽनन्यत् । परिणतिमात्रविशिष्टं द्रव्यमेव जानाति जिनेन्द्रः ॥ २६६८ ॥ २ न सुवर्णादम्यत् कुण्डलादि तदेव तं तमाकारम् । प्राप्तं तद्यपदेशं लभते स्वरूपादभिन्नामिति ॥ २६१९ ॥ । यदि वा द्रव्यादन्ये गुणादयो नूनं सप्रदेशस्वम् । भवेद् वा रूपादीनां विभिन्न देशोपलम्भोऽपि ॥ २६७० ॥
For Personal and
Use Only