________________
O
विशेषा. ॥१०६२॥
PAPSPIRO
olories
यदि पुनद्रव्या रूपादयो गुणाः, आदिशब्दाद् नव-पुराणादयः पर्याया अन्ये व्यतिरेकिण इष्यन्ते, तदा नूनं निश्चितं गुणादीनां सप्रदेशत्वमेष्टव्यं भवता । इदमुक्तं भवति-द्रव्यप्रदेशा गुणादय इति रूढम् , यदा च ते द्रव्याद् भिन्ना इष्यन्ते, तदाऽनन्यशरणाः सन्तः स्वस्यात्मन एवं प्रदेशा अवयवा भवेयुः । न चैतद् दृष्टम् , इष्टं वा, गुणादीनां सदैव पारतन्त्र्येण परप्रदेशत्वस्यैव रूढत्वात् । न हि वस्तु वात्मन एव स्वयमवयवो भवतीति क्यापि दृश्यते, युज्यते वेति । किश्च, गुणादीनां द्रव्याद् भिन्नत्व इष्यमाणे रूप-रस-गन्धादीनां घटादिद्रव्याद् भिन्नेऽपि देश उपलब्धिः स्यात् । तथाहि- यद् यतो भिन्नं तत् ततो भिन्नदेश उपलभ्यते, यथा घटात् पटः, न चैवं रूपादयः, तस्मात् ते घटादिद्रव्यादभिन्ना एवेति द्रव्यमेवास्ति न पर्याय इति ॥ २६७० ।।
अथोपचारतस्तेऽपीष्यन्ते, तर्हि सिद्धसाध्यतेति दर्शयन्नाह
जइ पज्जवोवयारो लय-प्पयासपरिणाममेत्तस्स । कीरइ तन्नाम न सो दव्वादत्थंतरब्भूओ ॥ २६७१ ॥
लयः, लीनता, तिरोभाव इत्यनर्थान्तरम् । प्रकाशः, प्रकटत्वम् , आविर्भाव इत्यप्यभिन्नार्थम् । लयश्च प्रकाशश्च लय-प्रकाशी | पयोंयाणामाविभोव-तिरोभावौ लय-प्रकाशाभ्यां लय-प्रकाशरूपतया परिणमनं परिणामो लय-प्रकाशपरिणामः स एव तन्मात्रं तस्य यदि तत्तद्विशेषबुद्धचभिधाननिवन्धनत्वेन पर्यायोपचारः क्रियते, तदा तन्नामेति नामशब्दोऽभ्युपगमे, मन्यामह तदित्यर्थः, केवलं नासो पर्यायो वास्तवः कोऽपि द्रव्यादर्थान्तरभूतो विद्यत इत्येतदेव भुजमुत्क्षिप्य ब्रूम इति ।। २६७१ ॥ यदि न वास्तवः पयोय: किन्तु कल्पितः, तर्हि खरविषाणस्याप्यसौ कथं न भवति, कल्पनामात्रस्य तत्रापि सुकरत्वात् । इत्याह
देव्वपरिणाममेत्तं पज्जाओसी य न खरसिंगस्स । तदपज्जवं न नज्जइ जं नाणं नेयविसयं ति॥२६७२॥
विशिष्टो द्रव्यपरिणाम एव द्रव्यपरिणाममात्रं पर्यायो नान्यः । स च न द्रव्याद् भिन्नः, तथाऽनुपलम्भात् । नाप्यसौ खरशृङ्गस्य, पर्यायस्य द्रव्यपरिणामत्वात् , खरशृङ्गस्य च द्रव्यत्वाभावात् । अत एव तत् खरशृङ्गमद्रव्यत्वादपयोयं सद् न ज्ञायते केवलिना, यतो ज्ञानं ज्ञेयविषयं ज्ञेयग्राहित्वेन प्रवर्तते । तच्चेह ज्ञेयविषयं नास्ति, खरविषाणस्याभावरूपत्वात् । अत एव नियुक्तिकृता प्रोक्तम्-'अपज्जवे जाणणा नत्थि' इति ॥ इति गाथापश्चकार्थः ।। २६७२ ॥ तदेवमवासितं समसङ्ग "किं सामायिकम् ?' इति द्वारम् ।।
, यदि पर्यवोपचारो लय-प्रकाशपरिणाममात्रस्य । क्रियते तमाम न स द्रव्यादर्थान्तरभूतः ।। २६७१ ॥ २ द्रव्यपरिणाममात्रं पर्यायः स च न खरजस्य । तदपर्यवं न ज्ञायते यज्ज्ञानं शेषविषयमिति ॥ २६७२ ॥ ३ गाथा २६६७ ।
॥१०६२॥
Jain Educationa.Intemals
For Personal and Price Use Only