SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०६३॥ अथ 'कतिविधं सामायिकम् ?' इति द्वारं व्याचिख्यासुराह सामाइयं पि तिविहं सम्मत्त सुयं तहा चरित्तं च । दुविहं चेव चरितं अगारमणगारियं चेव ॥२६७३ ॥ त्रिविधं त्रिभेदं सामायिकम् , अनुस्वारलोपात् सम्यक्त्वं सम्यक्त्वसामायिकम् , श्रुतं श्रुतसामायिकम् , तथा चारित्रं चारित्रसामायिकम् । चशब्दः प्रत्येकं स्वगतानेकभेदसूचनार्थः । तत्र संक्षेपेण मूलभेदतश्चारित्रं चारित्रसामायिकं द्विविधमेव द्विभेदमेव; तद्यथा- अगा वृक्षास्तैः कृतमगारं गृहं तदस्यास्तीति मतुब्लोपादगारो गृहस्थस्तस्येदमगारिकं देशचारित्रसामायिकं देशविरतिसामायिकमिति यावत् । एतच्च पुनरप्यनेकभेदम् , देशविरतेश्चित्ररूपत्वात् । न विद्यतेऽगारं गृहं यस्यासावनगारः साधुस्तस्येदमनगारिक सर्वचारित्रसामायिक सर्वविरतिसामायिकमित्यर्थः । इदमपि स्वस्थानेऽनेकभेदमेवेति ॥ २६७३ ॥ श्रुतसामायिकस्यापि संक्षेपतो भेदकथनार्थमाह__अज्झयणं पि य तिविहं सुत्ते अत्थे अ तदुभए चेव । सेसेसु वि अज्झयणेसु होइ एसेव निज्जुत्ती ॥२६७४॥ अधीयते विनयादिक्रमेण गुरुसमीप इत्यध्ययनं सामान्येन श्रुतमिह गृह्यते श्रुतसामायिकमित्यर्थः, तदपि त्रिविधं त्रिभेदम्'सुत्तेत्यादि सूत्रतः, अर्थतः, तदुभयतश्चेत्यर्थः । उपलक्षणत्वात् , अपिशब्दाद् वा सम्यक्त्वसामायिकमप्यौपशमिक-क्षायिक-क्षयोपशमभेदात् त्रिविधं द्रष्टव्यम् । अथ प्रक्रान्तोपोद्धातनियुक्तेरशेषाध्ययनव्यापितां दर्शयन्नाह- 'सेसेसु वीत्यादि प्रस्तुतसामायिकाध्ययनात् शेषेष्वपि चतुर्विंशतिस्तवादिष्वन्येषु चाध्ययनेष्वेषैवोद्देश-निर्देशादिका निरुक्तिपर्यवसानोपोद्घातनियुक्तिर्भवति । एषैव सर्वत्र द्रष्टव्येत्यर्थः । आह-ननूपोद्धातनियुक्तौ सर्वस्यामपि समर्थितायामित्थमतिदेशो दातुं युज्यते, न चेयमद्यापि समर्थ्यते 'भवागरिस| फोसण-निरुत्ती' इति निरुक्तिद्वार एव तस्याः समर्थयिष्यमाणत्वात् । सत्यम् , किन्तूपोद्धातनियुक्तिमध्यमिदम् , मध्ये चातिदेशः कृतः पर्यन्तेऽपि लभ्यते, “मध्यग्रहण आद्यन्तयोग्रहणम्” इति न्यायात् ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २६७४ ॥ अथ भाष्यकारः सम्यक्त्वादिसामायिकानां भेदनिरूपणार्थमाह सामायिकमपि त्रिविधं सम्यक्रवं श्रुतं तथा चारित्रं च । द्विविधमेव चारित्रमगारिकपनगारिकं चैव ॥ २६७३ ॥ २ अध्ययनमपि च त्रिविधं सूत्रेऽर्थे च तदुभय एव । शेषेवप्पध्ययनेषु भवेत्यषैव नियुक्तिः ॥ २६७४ ॥ ३ गाथा १४८५ । ॥१०६३॥ aadeo For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy