SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥१०६४॥ सम्मं निसग्गओऽहिगमओ य दसहा तप्पभेयाओ। कारय-रोयग-दीवगमहवा खइयाइयं तिविहं ॥२६७५॥ सुत्त-त्थ-तदुभयाई बहुहा वा सुत्तमक्खरसुयाई । खइयाई तिहा य सामाइयाई वा पंचहा चरणं ॥२६७६॥ वृहद्वत्तिः। दुविहतिविहाइणाणुव्वयाइं बहु-एगदेसचारित्तं । वीसुं सव्वाइं पुण पजायओऽणंतभेयाइं ॥ २६७७ ॥ व्याख्या- सम्यक्त्वं तावद् निसर्गतोऽधिगमतश्चेत्येवं द्विधा भवति । तत्र निसर्गः स्वभावस्तस्मात् सम्यक्त्वं भवति, यथा नारकादीनाम् , अधिगमस्तीर्थकरादीनां समीपे धर्मश्रवणं तस्मात् सम्यक्त्वं भवतीति प्रतीतमेव, यथा स्कन्दकादीनाम् । अथवा, 'तप्पभेयाउ त्ति' तस्य सम्यक्त्वस्य प्रकृष्टः मूक्ष्मो भेदस्तस्मात् प्रभेदतश्चिन्त्यमानमिदं द्विविधमपि समुदितं दशधा भवति । तत्रौपशमिक-सास्वादन-क्षायोपशमिक-वेदक-क्षायिकभेदाद् निसर्ग पञ्चधा, एवमधिगमसमुत्थमपि पञ्चधैव । तदेवं समुदितं सद् दशधा भवति । अथवा, कारक-रोचक-दीपकभेदात् क्षायिक-क्षायोपशमिको-पशमिकभेदाद् त्रिधा सम्यक्त्वं भवति । तत्र क्षायिकादयो भेदाः प्रतीता एव । कारकादीनां त्वयमर्थः- यस्मिन् सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते, सम्यक् करोति च, तत् कारयति सदनुष्ठानमिति कारकं सम्यक्त्वमुच्यते । एतच्च साधूनां द्रष्टव्यम् । यत्तु सदनुष्ठानं रोचयत्येव केवलम् , न पुनः कारयति तद् रोचकम् , यथा श्रेणिकादीनाम् । यत्तु स्वयं तत्त्वश्रद्धानरहित एव मिथ्यादृष्टिः परस्य धर्मकथादिभिस्तत्वश्रद्धानं दीपयत्युत्पादयति तत्संबन्धि सम्यक्त्वं दीपकमुच्यते, यथाऽङ्गारमर्दकादीनामिदं सम्यक्त्वमुच्यते, परमार्थतस्तु मिथ्यात्वमेवेति । मूत्रा-ऽर्थ-तदुभयभेदात् सूत्र श्रुतसामायिकं त्रिधा भवति । 'अक्खर सण्णी सम्म साइयं खलु सपज्जवसियं च, गमियं अङ्गपविलु' इत्यादिना प्रतिपादितादक्ष| रश्रुता-ऽनक्षरश्रुतादिभेदाद् बहुधा वा श्रुतसामायिकं भवति । चरणं चारित्रसामायिकं पुनः क्षायिकम् , क्षायोपशमिकम् , औपशमिकमित्येवं त्रिधा भवति । यदि वा, सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिक-मूक्ष्मसंपराय-यथाख्यातभेदात् पञ्चधा तद् भवति । यत् त्वणुव्रतायेकदेशविषयं चारित्रं देशविरतिसामायिकमित्यर्थः, तद् बहुधा बहुभेदं भवति । केन? इत्याह- 'दुविहतिविहाइण ति। १ सम्यक्त्वं निसर्गतोऽधिगमतश्च दशधा तत्प्रभेदात् । कारक-रोचक-दीपकमथवा क्षायिकादिकं विविधम् ॥ २६७५ ॥ सूत्राऽर्थ-तदुभयानि बहुधा वा सूत्रमक्षरधुतादि । क्षायिकादि त्रिधा च सामायिकादि वा पत्रधा चारित्रम् ॥ २५७५ ॥ द्विविध-त्रिविधादिनाणुवतानि बढेक-देशचारित्रम् । विष्वक् सर्वाणि पुनः पर्यायतोऽनन्तभेदानि ।। २६७७॥ २ गाथा ४५४ । १०६४॥ For Posod e On
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy