SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०६५ ॥ Jain Educators Internat "दुविहं तिविद्देण पढमओ दुविहं दुविहेण बीयओ होई । दुविहं एक्कविहणं एगविहं चैव तिविहेणं ॥ १ ॥” इत्यादिग्रन्थप्रतिपादितभङ्गजालेन हेतुभूतेनेत्यर्थः । 'वीसुं ति' एतेषां सामायिकानामेते पूर्वोक्ता भेदा विश्वकैकशश्चिन्त्यमा नानां द्रष्टव्याः । यदा तु सर्वाण्यप्येतानि समुदितानि भेदतश्चिन्त्यन्ते तदा पर्यायतः पर्यायानाश्रित्यानन्तभेदानि द्रष्टव्यानि । संयमण्यामध्यवसायस्थानानामसंख्ये यलो का काशप्रदेशप्रमाणत्वात् एकैकस्य चाध्यवसायस्थानस्यानन्तपर्यायत्वादिति ।। २६७५-७७ ।। "सेसेसु वि अज्झणेसु' इत्यादेर्व्याख्यानमाह चैउवीसयत्थयाइसु सव्वज्झयणेसु याणुओगम्मि । एस च्चिय निज्जुत्ती उद्देसाई निरुत्तता ॥ २६७८ ॥ शेषेष्वपि चतुर्विंशतिस्तवादिषु चशब्दादन्येषु च शस्त्रपरिज्ञादिष्वध्ययनेष्वनुयोगे विधीयमान आदावेवैदोद्देशादिका निरुक्त्यन्तोपोद्वातनिर्युक्तिर्द्रष्टव्या ।। इति गाथाचतुष्टयार्थः ।। २६७८ ।। सांप्रतं 'कस्य सामायिकं भवति ?" इति द्वारे प्रस्तुते यस्य तद् भवति तदभिधित्सया माह जैस्स सामाणिओ अप्पा संजमे नियमे तवे । तस्स सामाइयं होइ इई केवलिभासियं ॥ २६७९ ॥ जो समोसव्वभूएसु तसेसु थावरेसु य । तस्स सामाइयं होइ इई केवलिभासियं ॥ २६८० ॥ व्याख्या - यस्य सामानिकः संनिहितोऽप्रोषित इत्यर्थः, आत्मा जीवः । क ? । संयमे मूलगुणरूपे, नियम उत्तरगुणात्मके, तपसि - अनशनादिलक्षणे । तस्यैवंभूतस्याप्रमादिनः सामायिकं भवतीत्येवं केवलिभिर्भाषितमिति । तथा, यः समो मध्यस्थ आत्मानमित्र परं पश्यतीत्यर्थः सर्वभूतेषु सर्वप्राणिषु त्रसेषु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु तस्य सामायिकं भवतीत्येतच्च केवलिभिर्भाषितमिति ।। २६७९ ।। २६८० ॥ सांप्रतं फलप्रदर्शनद्वारेणास्य करणविधानं प्रतिपादयन्नाह - १३४ १ द्विविधं त्रिविधेन प्रथमतो द्विविधं द्विविधेन द्वितीयतो भवति । द्विविधमेकविधेनैकविधं चैव त्रिविधेन ।। १ ।। २ गाथा २६७४ । ३ चतुर्विंशतिस्तवादिषु सर्वाध्ययनेषु चानुयोगे । एषैव निर्युक्तिरुद्देशादिर्निरुक्त्यन्ता ॥ २६७८ ॥ ४ यस्य सामानिक आत्मा संयमे नियमे तपसि । तस्य सामायिकं भवतीति केवलिभाषितम् ॥ २६७९ ॥ यः समः सर्वभूतेषु श्रसेषु स्थावरेषु च । तस्य सामायिकं भवतीति केवलिभाषितम् ॥ २६८० ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१०६५ ॥ ww.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy