________________
बृहद्वृत्तिः।
विशेषा ॥१०६६॥
ब
सावज्जजोगंपरिरक्खणट्ठा सामाइयं केवलियं पसत्थं ।
गिहत्थधम्मा परमं ति नच्चा कुज्जा बुहो आयहियं परत्था ॥ २६८१ ॥ सावद्ययोगपरिरक्षणार्थ सामायिक केवलिक परिपूर्ण प्रशस्त पवित्रम् , एतदेव हि गृहस्थधर्मात् परमं प्रधान ज्येष्ठम् , इत्येवं ज्ञात्वा कुर्याद् बुधो विद्वानात्माहितमात्मोपकारकमिह लोके परत्र च । अथवा, परो मोक्षस्तदर्थ कुर्याद् न तु सुरलोकाद्यर्थम् ॥ इति नियुतिरूपकत्रयार्थः ॥ २६८१॥
अथ भाष्यगाथा
केवलियं पडिपुन्नं परमं जेठं गिहत्थधम्माओ । तं हियमिओ परत्था सिवं परं वा तदत्थं वा ॥२६८२॥
गतार्था । नवरं 'तं हियमिओ परत्थ त्ति' तत् सामायिकमात्मनो हितम् । क्व ? इत्याह- इत इहलोके, परत्र परलोके चेति ॥ २६८२ ॥
अथ वक्ष्यमाणगाथायाः प्रस्तावनां कुर्वन् भाष्यकार एवाह'गिहिणा वि सव्ववज्जं दुविहं तिविहेण छिन्नकालं तं। कायव्वमाह सव्वे को दोसो भण्णएणुमई ॥२६८३॥
इह परिपूर्णसामायिककरणशक्त्यभावे संपूर्णसंयमाङ्गीकारभावसामाभावे गृहिणापि गृहस्थेनापि सता तत् सामायिक छिन्नकालं विघटिकादिकालमानोपेतं सर्ववजे सर्वशब्दोच्चारणरहितं द्विविधं त्रिविधेन कर्तव्यमेव । अत्राह परः- सर्वे- सर्वशब्दोच्चारणे को दोषः, येन 'सर्ववर्जम्' इति विशिष्यते ? । भण्यतेत्रोत्तरम्- सर्वशब्दोच्चारणं कुर्वतस्तस्य सावधयोगानुमतिलक्षणो दोषः, तेन हि गृहादिषु प्रागनेक आरम्भाः प्रवर्तिताः सन्ति, तदनुमतिश्च सामायिक तिष्ठतस्तस्यानुवर्तत एव । ततः सर्वसावधयोगनिषेधं कुर्वतो गृहस्थस्य व्रतभङ्ग एव स्यादिति भावः ॥ इति गाथाद्वयार्थः ।। २६८३ ॥ एतदेवाह
सावधयोगपरिरक्षणार्थ सामायिक केवलिकं प्रशस्तम् । गृहस्थधर्मात् परममिति ज्ञात्वा कुर्याद बुध आत्महितं परार्थम् । २६८१॥ २ केबलिक परिपूर्ण परमं ज्येष्ठं गृहस्थधर्मात् । तद् हितमितः परत्र शिवं परं वा तदर्थं वा ॥ २६८२ ॥ ३ गृहिणापि सर्ववजै द्विविधं त्रिविधेन च्छिन्नकालं तत् । कर्तब्यमाह सर्वे को दोषो भण्यतेऽनुमतिः ॥ २६८३ ॥
॥१०६६।।
For Posod
e
On