Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
बृहद्वात्तः।
॥१०७४॥
आसां च दशानामपि पूर्वादिदिशामेतानि नामानि भवन्ति; तद्यथा
'इंदग्गेइजम्मा य नेरई वारुणी य वायव्वा । सोमा ईसाणा च्चिय विमला य तवा य बोधव्वा ॥१॥
इंदा विजयद्दाराणुसारओ सेसिया पइक्खणओ । अट्ठ वि तिरियदिसाओ उड्ढं विमला तवा चाहो ॥२॥" इदं च गाथाद्वयं भाष्येष्वपि बहु लिखितं दृश्यते, परं प्रक्षेपोऽसौ संभाव्यते, पूर्वटीकायां मूलावश्यकटीकायां चाव्याख्यातत्वात् ॥ इति गाथात्रयार्थः ॥ तदेवमुक्ता क्षेत्रदिक् ॥ २७००॥
इदानीं तापक्षेत्रदिगुच्यते- तत्र तपतीति ताप इह सविता गृह्यते, तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक् । सा चानियतेत्याह
जेसिं जत्तो सूरो उएइ तेसिं तई हवइ पुव्वा । तावक्खित्तदिसाओ पयाहिणं सेसियाओ सिं ॥२७०१॥
येषां भरतादिक्षेत्रनिवासिनां पुंसां यतो यस्यां दिशि सूर्य उदेत्युद्गच्छति सा तेषां पूर्वेति व्यपदिश्यते । इह च मूर्यमाश्रित्यैतद्वयपदेशप्रवृत्तेस्तापक्षेत्रदिगियमुच्यते । एतस्याश्च प्रदक्षिणतः शेषा अपि दक्षिणाद्या दिशोऽवगन्तव्याः, तद्यथा-दक्षिणभुजपक्षे दक्षिणा, पृष्ठतः पश्चिमा, वामभुजपक्षे पुनरुत्तरेति ॥ २७०१॥
___ 'पण्णवए त्ति' प्रज्ञापयति सूत्रार्थ प्ररूपयति प्रज्ञापको व्याख्याता तदपेक्षा तमाश्रित्य दिक् प्रज्ञापकदिगुच्यते । तत्स्वरूपनिरूपणार्थमाह
पेण्णवओ जदभिमुहो सा पुव्वा सेसिया पयाहिणओ। अट्ठारस भावदिसा जीवरस गमागमो जेसु ॥२७०२॥
प्रज्ञापको यदभिभुखः सूत्रार्थ कथयति सा पूर्वा, शेषास्तु दक्षिणाद्याः पूर्ववत प्रदक्षिणतो वाच्याः। अथ सप्तमी भावदिशमभिधित्सुराह- 'अट्ठारसेत्यादि' येषु पृथिव्यादिस्थानेषु कर्मपरतन्त्रस्य जीवस्य गमा-ऽऽगमौ संपद्यते सा भावदिगुच्यते। सा पुनरष्टादशभेदा भवतीति ॥ २७०२॥
ऐन्द्री आझेयी यामी च नैकरती घारुणी च वायव्या । सौमीशान्येव विमला च तपा च बोद्धव्या ॥१॥ ऐन्द्री विजयद्वारानुसारतः शेषिकाः प्रदक्षिणतः । अष्टापि तियेग्दिश ऊर्व विमला तपा चाधः ॥ २॥ २ येषां यतः सूर उदेति तेषां सा भवति पूर्वा । तापक्षेत्रदिशः प्रदक्षिणं शेषिका अस्याः ॥ २७०१॥ ३ प्रज्ञापको यदभिमुखः सा पूर्वा शेषिकाः प्रदक्षिणतः । अष्टादश भावदिशो जीवस्य गमा-ऽऽगमी येषु ॥ २७०२ ॥
॥१०७४॥
Jan E
inema
For Personal and Price Use Only
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202