________________
विशेषा
बृहद्वात्तः।
॥१०७४॥
आसां च दशानामपि पूर्वादिदिशामेतानि नामानि भवन्ति; तद्यथा
'इंदग्गेइजम्मा य नेरई वारुणी य वायव्वा । सोमा ईसाणा च्चिय विमला य तवा य बोधव्वा ॥१॥
इंदा विजयद्दाराणुसारओ सेसिया पइक्खणओ । अट्ठ वि तिरियदिसाओ उड्ढं विमला तवा चाहो ॥२॥" इदं च गाथाद्वयं भाष्येष्वपि बहु लिखितं दृश्यते, परं प्रक्षेपोऽसौ संभाव्यते, पूर्वटीकायां मूलावश्यकटीकायां चाव्याख्यातत्वात् ॥ इति गाथात्रयार्थः ॥ तदेवमुक्ता क्षेत्रदिक् ॥ २७००॥
इदानीं तापक्षेत्रदिगुच्यते- तत्र तपतीति ताप इह सविता गृह्यते, तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक् । सा चानियतेत्याह
जेसिं जत्तो सूरो उएइ तेसिं तई हवइ पुव्वा । तावक्खित्तदिसाओ पयाहिणं सेसियाओ सिं ॥२७०१॥
येषां भरतादिक्षेत्रनिवासिनां पुंसां यतो यस्यां दिशि सूर्य उदेत्युद्गच्छति सा तेषां पूर्वेति व्यपदिश्यते । इह च मूर्यमाश्रित्यैतद्वयपदेशप्रवृत्तेस्तापक्षेत्रदिगियमुच्यते । एतस्याश्च प्रदक्षिणतः शेषा अपि दक्षिणाद्या दिशोऽवगन्तव्याः, तद्यथा-दक्षिणभुजपक्षे दक्षिणा, पृष्ठतः पश्चिमा, वामभुजपक्षे पुनरुत्तरेति ॥ २७०१॥
___ 'पण्णवए त्ति' प्रज्ञापयति सूत्रार्थ प्ररूपयति प्रज्ञापको व्याख्याता तदपेक्षा तमाश्रित्य दिक् प्रज्ञापकदिगुच्यते । तत्स्वरूपनिरूपणार्थमाह
पेण्णवओ जदभिमुहो सा पुव्वा सेसिया पयाहिणओ। अट्ठारस भावदिसा जीवरस गमागमो जेसु ॥२७०२॥
प्रज्ञापको यदभिभुखः सूत्रार्थ कथयति सा पूर्वा, शेषास्तु दक्षिणाद्याः पूर्ववत प्रदक्षिणतो वाच्याः। अथ सप्तमी भावदिशमभिधित्सुराह- 'अट्ठारसेत्यादि' येषु पृथिव्यादिस्थानेषु कर्मपरतन्त्रस्य जीवस्य गमा-ऽऽगमौ संपद्यते सा भावदिगुच्यते। सा पुनरष्टादशभेदा भवतीति ॥ २७०२॥
ऐन्द्री आझेयी यामी च नैकरती घारुणी च वायव्या । सौमीशान्येव विमला च तपा च बोद्धव्या ॥१॥ ऐन्द्री विजयद्वारानुसारतः शेषिकाः प्रदक्षिणतः । अष्टापि तियेग्दिश ऊर्व विमला तपा चाधः ॥ २॥ २ येषां यतः सूर उदेति तेषां सा भवति पूर्वा । तापक्षेत्रदिशः प्रदक्षिणं शेषिका अस्याः ॥ २७०१॥ ३ प्रज्ञापको यदभिमुखः सा पूर्वा शेषिकाः प्रदक्षिणतः । अष्टादश भावदिशो जीवस्य गमा-ऽऽगमी येषु ॥ २७०२ ॥
॥१०७४॥
Jan E
inema
For Personal and Price Use Only