SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१०७५ तानेव भावदिग्भेदान् दर्शयति पुढवि-जल-जलण-वाया मूला-खंध-ग्ग-पोरबीया य। बि-ति-चउ-पंचिंदिय-तिरिय-नारगा-देवसंघाया॥२७०३|| संमुच्छिम-कम्मा-ऽकम्मभूमगनरा तहंतरद्दीवा । भावदिसा दिस्सइ जं संसारी निययमेयाहिं ॥२७०४॥ व्याख्या-पृथिवी-जल-ज्वलन-वायवः, वनस्पतिभेदास्तु बीजशब्दस्य प्रत्येकमभिसंबन्धाद् मूलं बीजं येषां ते मूलबीजा उत्पलकन्दलादयः, स्कन्धो बीजं येषां ते स्कन्धवीजाः शल्लक्यादयः, अगं बीजं येषां तेऽग्रवीजाः कोरण्टकादयः, पर्व बीज येषां ते पर्वबीजा इक्ष्वादयः । द्वि-त्रि-चतुरिन्द्रियाः कृमि-कीटक-भ्रमरादयः, पश्चेन्द्रियास्तु मीन-मकर-शरभ-सिंह-गो-महिष्य-जा-हंस-चक्रवाकादितिर्यक्संघाताः, नारकसंघाताः, देवसंघाताः। मनुष्यभेदास्तु संमूर्छजाः, कर्मभूमिजाः, अकर्मभूमिजाः, अन्तीपजाश्चेति एवमष्टादशविधा भावतः पृथिव्यादिपर्यायतः परमार्थतो वा भावदिग् भवति । कुतः ? इत्याह- 'दिस्सइ जमित्यादि' यद् यस्मात् 'अमुकोऽयं पृथिवीकायिकः, अप्कायिको वा' इत्यादिभिः पयायैः संसारी जीवो नियतं नैयत्येन दृश्यते व्यपदिश्यत एताभिः पृथिव्यादिपर्यायरूपाभिर्दिभिर्हेतुभूताभिः । तत एता एव भावदिशः॥ इति नियुक्तिगाथाचतुष्टयार्थः ॥ २७०३ ॥ २७०४ ॥ अथ भाष्यकारो वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाह खेत्तदिसासुं पगयं सेसदिसाओ पसंगओऽभिहिया । संभवओ वा वच्चं सामइयं जत्थ जं हुज्जा ॥२७०५॥ इह दिग्द्वारे विचार्यमाणे रुचकादारभ्य या- पूर्वादिका दिशः प्ररूपितास्ताभिरेवेह प्रकृतं प्रयोजनम् , शेषास्तु नाम-स्थापनादिका दिशो दिक्साम्यात् प्रसङ्गतोऽभिहिताः । यदिवा, अशेषदिशा मध्ये यस्यां दिशि यत् सामायिक संभवति तदभ्यूह्य वाच्यम् , मूलावश्यकाद् वाऽवसेयम् ॥ इति गाथार्थः ॥ २७०५॥ ___ 'इह क्षेत्रदिग्भिः प्रयोजनम्' इत्युक्तम् , किं पुनस्तत् ? इत्याह--- , पृथिवी-जल-ज्वलन-वायवो मूल-स्कन्धा-ऽन-पर्ववीजाश्च । द्वि-त्रि-चतुष्पञ्चेन्द्रिय-तियग्-नारक-देवसंघाताः ॥ २७०३ ॥ संमूर्षिछम-कर्मा-ऽकर्मभूमिगनरास्तथान्तरद्वीपाः | भावदिग् रश्यते यत् संसारी नियतमेताभिः ।।२००४ ॥ २ क्षेत्रदिभिः प्रकृतं शेषदिशः प्रसङ्गतोऽभिहिताः । संभवतो वा वाच्यं सामायिकं यत्र यद् भवेत् ॥ २७१५ ॥ १०७५ For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy