________________
पुव्वाइयासु महादिसासु पडिवजमाणओ होइ । पुवपडिवण्णओ पुण अण्णयरीए दिसाए उ ॥२७०६॥ विशेषा.
पूर्वाद्यासु शकटोद्विसंस्थितासु पूर्वोक्तासु चतसृषु महादिक्षु विवक्षिते काले चतुर्णामपि सामायिकानां प्रतिपद्यमानको भवति, GENERI तत्संभवस्तास्वस्ति, न पुनर्भवत्येव, कदाचित् तस्य तासु भवनात् कदाचिदभवनादिति । पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव ॥ इति नियुक्तिगाथार्थः ॥ २७०६ ॥
ऊर्ध्वा-धोदिग्द्वये विदिक्षु च तर्हि का वार्ता ? इत्याशक्य भाष्यकारः प्राह--
छिण्णावलि-रुयगागीदिसासु सामाइयं न जं तासु । सुद्धासु नावगाहइ जीवो ताओ पुण फुसिजा ॥२७०७॥
एकमदेशिकत्वेन च्छिन्नमुक्तावलीकल्पासु चतसृष्वपि विदिक्षु 'रुयगागि त्ति' रुचकाकारयोः प्रत्येकं चतुष्पदेशिकयोरू;ऽधोदिशोश्च 'सामाइयं न त्ति' सर्वमपि सामायिकं संपूर्ण न 'लभ्यते' इति शेषः । कुतः ? इत्याह-'जं तास्वित्यादि' यद् यस्मात् तासु शुद्धासु केवलासु पदस्खपि जीवः संपूर्णो नावगाहते, तस्य जघन्यतोऽप्यसंख्येयप्रदेशावगाहित्वात् , एतासां चैकप्रदेशिकत्वेन चतुष्पदेशिकत्वेन चैतावत्प्रमाणावगाहासंभवात् । इतस्ततः संचरणादौ पुनः सामायिकवाजीवस्ताः षडपि देशतः स्पृशेद् न विरोधः ॥ इति । गाथार्थः ॥ उक्तं दिग्द्वारम् ।। २७०७ ॥
सांप्रतं कालद्वारमभिधित्सुराह--
सम्मत्तस्स सुयस्स य पडिवत्ती छविहे वि कालम्मि। विरइं विरयाविरइं पडिवज्जइ दोसु तिसु वावि ॥२७०८॥
सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधेऽपि सुषमदुःषमादिके काले संभवति । पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव । विरतिं समग्रचारित्रलक्षणां तां, तथा, विरताविरतिं देशचारित्रात्मिकां प्रतिपद्यते कश्चिदुत्सर्पिण्या द्वयोः कालयोः दुःषमसुषमायां, सुषमदुःषमायां चेति; अवसर्पिण्यां तु त्रिषु कालेषु सुषमदुम्पमायां, दुःषमसुषमायाम् , दुःषमायां चेति । पूर्वपतिपन्नस्त्विह विद्यत एव । अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव संभवति । प्रतिभागकालेषु तु त्रिषु सम्यक्त्व-श्रुतयोः , पूर्वादिकासु महादिक्षु प्रतिपद्यमानको भवति । पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि तु ॥ २७०६ ॥
॥१०७६॥ २ छिनावली-रुचकाकृतिदिक्षु सामायिकं न यत् तासु । शुद्धासु नावगाहते जीवस्ताः पुनः स्पृशेत् ॥ २७.०॥ ३ सम्यक्त्वस्य धुतस्य च प्रतिपत्तिः पतिधेऽपि काले । विरतिं विरताविरति प्रतिपद्यते इयोस्तिसृषु वापि ॥ २७०८ ॥
For Personal
Use Only