________________
विशेषा
॥१०७७
प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चतुर्थे च प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः संभवति, पूर्वप्रतिपवस्तु विद्यत एव । बाह्यद्वीप-समुद्रेषु तु कालरहितेषु त्रयाणां सामायिकानां प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चरणस्यापि बृहद्वात्तिः। नन्दीश्वरादौ विद्याचारणादिगमने पूर्वप्रतिपन्नः संभवति ॥ इति नियुक्तिगाथार्थः ॥ २७०८ ॥
अथ भाष्यम्तैइयाइसु तिसु ओसप्पिणीए उस्सप्पिणीए दोसुं तु । नोउस्सप्पुसप्पिणिकाले तिसु सम्म-सुत्ताई ॥२७०९॥
पलिभागम्मि चउत्थे चउबिहं चरणवज्जियमकाले । चरणं पि हुज्ज गमणे सव्वं सव्वत्थ साहरणे ॥२७१०॥
व्याख्या- 'तइयाइसु तिसु ओसप्पिणीए त्ति' अवसर्पिण्यां तृतीयादिषु त्रिषु कालेषु सुषमदुःषमादिषु त्रिध्वरकेवित्यर्थः 'सर्वविरति-देशविरतिसामायिकयोः प्रतिपत्ता लभ्यते' इत्यध्याहारः। पूर्वप्रतिपन्नस्त्विह चतुर्णामस्त्येव । एवमुत्तरत्रापि पूर्वप्रतिपन्नो यथासंभवमभ्यूह्य वक्तव्य इति । 'उस्सप्पिणीए दोसु ति' उत्सर्पिण्यां पुनयोर्दुःषमसुषमा-सुषमदुःषमालक्षणयोः कालविशेषयोस्तत्मतिपत्ता प्राप्यते । 'नो इत्यादि' इह देवकुरू-त्तरकुरुषु सुषमसुषमाप्रतिभागः, हरिवर्ष-रम्यकेषु सुषमाप्रतिभागः, हैमवतै-रण्यवतेषु सुषमदुःषमाप्रतिभागः, पञ्चसु महाविदेहेषु दुःषमसुषमाप्रतिभागः । इह चतुर्वपि स्थानेपृत्सर्पिण्य-वसर्पिण्यभावाद् नोउत्सर्पिण्यवसर्पिणीकालोऽयमभिधीयते, यथाक्रमं च सुषमसुषमादिभिः कालविशेषैः सह प्रतिभागस्य सादृश्यस्य विद्यमानत्वाच्चत्वारः सुषमसुपमादयः प्रतिभागा एते भण्यन्ते । तदस्मिन् प्रतिभागचतुष्टयलक्षणे नोउत्सर्पिण्यवसर्पिणीकाले चिन्त्यमाने 'तिसु त्ति' आयेषु सुषमसुषमाप्रतिभागादिषु त्रिषु प्रतिभागेषु द्वे सम्यक्त्व-श्रुतसामायिके जीवः प्रतिपद्यते । 'पलिभागम्मि चउत्थे चउब्विहं ति' महाविदेहेषु चतुर्थे दुःपमसुषमाप्रतिभागे चतुर्विधमपि सामायिक प्रतिपद्यते । 'चरणवज्जियमकाले त्ति' अकाले कालाभावे बाह्यद्वीप-समुद्रेषु चरणवर्जितमाचं सामायिकत्रयं मत्स्यादयः प्रतिपद्यन्ते । 'चरणं वि हुज गमणे त्ति' नन्दीश्वरादौ विद्याचारणादीनां गमने चरणमपि पूर्वप्रतिपन्नं सर्वविरतिसामायिकमपि भवेदित्यर्थः । 'सवं सम्वत्थ साहरणे ति देवादिना तु संहरणं प्रतीत्य सर्वं चतुर्विधर्मपि सामायिकं सर्वत्र निःशेषेऽपि काले प्राप्यते ॥ इति गाथाद्वयार्थः । गतं कालद्वारम् ॥ २७०९ ॥ २७१०॥
SE१०७७|| तृतीयादिषु त्रिववसर्पिण्यामुत्सर्पिण्या योस्तु । नोउत्सर्पिण्यवसर्पिणीकाले त्रिषु सम्यक्त्वश्रुते ॥ २७.५ ॥ प्रतिभागे चतुर्थे चतुर्विध चरणवर्जितमकाले । चरणमपि भवेद् गमने सर्व सर्वग्न संहरणे ॥ २७१० ॥
For Personal and
Use Only