________________
गतिदारं विभणिपुरासम्मत्तमुयस्स होइ पधुनसामाणिकपोनियमतित्यतिपत्तरिहै, नात्यातर, पूर्वपति, पूर्वप्रतिपचार
विशेषा०
॥१०७८॥
इदानी गतिद्वारं विभणिपुराहचउसु वि गईसु नियमा सम्मत्तसुयस्स होइ पडिवत्ती। मणुएसु होइ विरई विरयाविरई य तिरिएसु ॥२७११॥
चतसृष्वपि नारक-तिर्यग्-नरा-ऽमरगतिषु सम्यक्त्व-श्रुतसामायिकयोनियमात् प्रतिपत्तिर्भवति, न पुनर्न भवतीत्येवं नियमो द्रष्टव्यः, भवत्येव सदैव तत्प्रतिपत्तिरित्येवं तु न नियमः, कदाचिदन्तरस्यापि तत्प्रतिपत्तेरिहैव वक्ष्यमाणत्वादिति । पूर्वप्रतिपबास्तु सदैव लभ्यन्त इति । तथा, मनुष्येषु प्रतिपत्तिमङ्गीकृत्य भवति विरतिश्चारित्रात्मिका, नान्यगतिषु, पूर्वप्रतिपन्नास्तु तस्याः सदैवेह विद्यन्त इति । विरताविरतिश्च देशविरतिस्तिर्यक्षु 'भवति' इत्यनुवर्तते, इहापि संभवतस्तत्मतिपत्तिद्रष्टव्या, पूर्वप्रतिपन्नास्तु सदैव सन्तीति ॥ २७११॥
अथ भव्य-संज्ञिद्वारद्वयमभिधातुमाहभवसिद्धिओ य जीवो पडिवजइ सो चउण्हमण्णयरं । पडिसेहो पुण असण्णि-मीसए सण्णि पडिवजे॥२७१२॥
भवा भाविनी सिद्धिर्यस्यासौ भव्यसिद्धिको भव्यो जीवः, स चतुर्णा सामायिकानामन्यतरत् सामायिक प्रतिपद्यते । इदमुक्तं भवति- कदाचित् सम्यक्त्व-श्रुतसामायिके प्रतिपद्यते, कदाचिद् देशविरतिम् , कदाचित् सर्वविरतिमपि प्रतिपद्यत इति । पूर्वप्रतिपबास्तु नानाभव्याश्चतुर्णामपि सामायिकानां सदैव लभ्यन्त इति । एवं संज्यपि चतुर्णामपि सामायिकानां कदाचित् किश्चित् प्रतिपद्यते । तथाचाह- 'सण्णि पडिवज्जे त्ति' पूर्वप्रतिपन्नास्तु संज्ञिनोऽपि भव्यवत् सदैव प्राप्यन्त इति । 'पडिसेहो इत्यादि' पूर्वपतिपन्नान् प्रतिपद्यमानकांश्चाश्रित्य चतुर्णामपि सामायिकानां प्रतिषेधः कार्यः। क ? इत्याह- असंज्ञिनि, मिश्रके, अभव्ये च "सिद्धे नो सण्णी, नो असण्णी; नो भव्वे, नो अभब्वे" इति वचनाद् मिश्रकः सिद्धोऽभिधीयते । ततश्चैते त्रयोऽप्यसंज्य-भव्य-मिश्रकाश्चतुर्णामपि सामायिकानां न पूर्वप्रतिपन्ना नापि प्रतिपद्यमानका लभ्यन्त इति भावार्थः । पुनःशब्दादसंज्ञी सास्वादनमाश्रित्य सम्यक्त्व-श्रुतसामायिकयोः पूर्वप्रतिपन्नो भवेदिति द्रष्टव्यम् , तथा मिश्रोऽपि भवस्थकेवली सम्यकत्व-चारित्रसामायिकयोः पूर्वप्रतिपन्नो
. चतसृष्वपि गतिषु नियमात् सम्यक्त्वश्रुतयोर्भवति प्रतिपत्तिः । मनुजेषु भवति विरतिर्विरताविरतिश्च तिर्यक्षु ॥ २७११॥ २ भवसिद्धिका जीवः प्रतिपद्यते स चतुर्णामन्यतरत् । प्रतिषेधः पुनरसंज्ञि-मिश्रकयोः संशी प्रतिप घेत ॥ २७१२ ॥ ३ सिद्धो नो संज्ञी, नो असंशी, नो भव्यः, नो अभव्यः ।
१०७८॥
For Personal and Pre Use Only