SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वत्तिः । ॥१०७९॥ भवेदित्यपि दृश्यम् । अयं च न संज्ञी नाप्यसंज्ञीति मिश्रता द्रष्टव्या । आह- यद्येवं सिद्धोऽपि सम्यक्त्वसामायिकस्य पूर्वप्रतिपन्नो लभ्यते, अतोऽस्यापि किमिति सर्वसामायिकनिषेधः क्रियते ? । सत्यम् , किन्तु सम्यक्त्ववर्ज सामायिकत्रयं संसारस्थानामेवं | संभवति, तत्साहचर्यात् सम्यक्त्वसामायिकमपि संसारिणां संवन्धि विचार्यते, तथाभूतं तु सिद्धे नास्तीति निषिध्यत इत्यदोषः ॥ इति नियुक्तिगाथाद्वयार्थः ॥ २७१२॥ पुनःशब्दस्य व्याख्यानं भाष्यकारोऽप्याहपुणसहादसण्णी सम्म-सुए होज्ज पुव्वपडिवन्नो । मीसो भवत्थकाले सम्मत्त-चारित्तपडिवन्नो ॥ २७१३ ॥ गतार्था ।। २७१३ ॥ अथोच्छासनिःश्वासक-दृष्टिद्वारद्वयाभिधित्सया पाहऊसासय-नीसासय मीसे पडिसेहो दुविहपडिवण्णो। दिट्ठी य दो नया खलु ववहारो निच्छओ चेव ॥२७१४॥ उच्छ्वासितीत्युच्छ्वासकः, निःश्वसितीति निःश्वासक आनापानपर्याप्तिपरिनिष्पन्न इत्यर्थः । स चतुर्णामपि सामायिकानां पतिपद्यमानकः संभवति, पूर्वप्रतिपन्नकस्त्वस्त्येव' इति वाक्यशेषः । मिश्रः खल्वानापानपर्याप्त्यपर्याप्तो भण्यते । तत्र प्रतिपत्तिमङ्गीकृत्य प्रतिषेधः, नासौ चतुर्णामपि प्रतिपद्यमानकः संभवतीति भावना। 'दुविहपडिवण्णो त्ति' स एव द्विविधस्य सम्यक्त्व-श्रुतसामायिकस्य प्रतिपन्नः पूर्वप्रतिपन्नो भवति देवादिर्जन्मकाल इति । अथवा मिश्रः सिद्धः, तत्र चतुर्णामपि सामायिकानां पूर्वोक्तयुक्तरुभयथापि प्रतिषेधः । 'दुविहपडिवण्णो त्ति' इह मिश्रः शरीररहितत्वाद् नोउच्छ्वास-निश्वासकत्वेन शैलेशीगतोऽयोगिकेवली गृह्यते, स द्विविधस्य सम्यक्त्वचारित्रसामायिकस्य पूर्वप्रतिपन्नो भवति । दृष्टौ विचार्यमाणायां द्वौ नयौ खलु विचारकौ- व्यवहारो निश्चयश्चैव । तत्राद्यस्य यथा पतिज्ञानविचारेऽज्ञानी ज्ञान प्रतिपद्यते, तथेहाप्यसामायिकी- असामायिकवान् सामायिक प्रतिपद्यते, तथाऽसामयिकी दीर्घकालिकी तत्यतिपत्तिः । द्वितीयस्य तु यथा ज्ञानी ज्ञान प्रतिपद्यते तथात्रापि सामायिकी सामायिकवान् सामायिक प्रतिपद्यते, सामायिकी च तत्मतिपत्तिः, क्रियाकाल-निष्ठाकालयोरभेदात् ॥ इति नियुक्तिगाथार्थः ॥ २७१४ ॥ पुनःशब्दादसंज्ञी सम्यक्त्व-श्रुतयोर्भवत् पूर्वप्रतिपन्नः । मिश्रो भवस्थकाले सम्पकत्व-चारित्रप्रतिपन्नः ॥ २७१३॥ २ उच्छ्वासक-निःश्वासको मिश्रे प्रतिषेधो द्विविधप्रतिपन्नः । दृष्टौ च द्वौ नयी खलु व्यवहारो निश्चयश्चैव ॥ २७॥ ॥१०७९॥ SERI For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy