________________
विशेषा०
॥१०८०॥
Jain Education International
मिश्रशब्दभावार्थ व्यवहार- निश्चयनयमतविचारं च भाष्यकारोऽप्याह
सोनोउस्सासनीसासो तेहिं जो अपज्जत्तो । हुज्ज पवण्णो दोन्नि उ सेलेसिगओ चरितं च ॥ २७१५ ॥ पढमस्सासामइगी पडिवज्जइ बिइयगस्स सामइगी । ववहार- निच्छयमयं नेयं मइनाणलाभो व्व ॥ २७१६ ॥
व्याख्या - इह मिश्रो नोउच्छ्रासक-निःश्वासकोऽयोगिकेवली गृह्यते । तथा, ताभ्यामुच्छ्रासनिःश्वासाभ्यामपर्याप्तकवेह मिश्रः । स चापर्याप्तको देवादिर्जन्मकाले द्विविधस्य सम्यक्त्वश्रुतसामायिकस्य पूर्वप्रतिपन्नो लभ्यते । यस्तु नोउच्छ्वासक - निःश्वासको मिश्रः शैलेशीगतोऽयोगिकेवली, स चारित्रसामायिकं चशब्दात् सम्यक्त्वसामायिकं चाश्रित्य पूर्वप्रतिपन्नः प्राप्यत इति । दृष्टौ नयविचारे प्रथमस्य व्यवहारनयस्यासामायिकी असामायिकवान् सामायिकं प्रतिपद्यते, द्वितीयस्य तु निश्चयनयस्य सामायिकी सामायिकवान् सामायिकं प्रतिपद्यत इत्येवमादि व्यवहार- निश्चयनयमतं मतिज्ञानलाभ इवात्रापि विज्ञेयम् ।। इति गाथाद्वयार्थः ।। २७१५ ।। २७१६ ॥
अथाहारक- पर्याप्तद्वारद्वयमाह -
आहारगो उ जीवो पडिवज्जइ सो चउण्हमण्णयरं । एमेव य पज्जत्तो सम्मत्त सुए सिया इयरो ॥२७१७॥
आहारयतीत्याहारकस्तु यो जीवः स चतुर्णां सामायिकानां प्राग्वदन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवः पद्भिः पर्याप्तिभिः पर्याप्तोऽप्येवमेव चतुर्णामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येव । 'सम्मत्त-सुए सिया इयरो ति' इतरोऽनाहरको पर्याप्तकथ तत्रानाहारकोsपान्तरालगतौ सम्यक्त्व श्रुते अङ्गीकृत्य स्याद् भवेत् 'पूर्वप्रतिपन्नः, प्रतिपद्यमानस्तु नैव' इति वाक्यशेषः । केवली तु समुद्धात - शैलेश्यवस्थायामनाहारको दर्शन-चरण- सामायिकद्वयस्य पूर्वप्रतिपन्नो लभ्यते, अपर्याप्तोऽपि सम्यक्त्व श्रुते अधिकृत्य स्यात् पूर्वप्रतिपन्नः ॥ इति निर्युक्तिगाथार्थः ॥ २७१७ ॥
अत्र भाष्यम् -
१ मिश्रोनो उच्छ्वासकनिःश्वासस्ताभ्यां योऽपर्याप्तः । भवेत् प्रपन्नो द्वे तु शैलेशीगतश्चरित्रं च ॥ २७१५ ॥
प्रथमस्या सामायिकी प्रतिपद्यते द्वितीयस्य सामायिकी व्यवहार- निश्चयमतं ज्ञेयं मतिज्ञानलाभ इव ॥ २७१६ ॥ २ आहारकस्तु जीवः प्रतिपद्यते स चतुर्णामन्यतरत् । एवमेव च पर्याप्तः सम्यक्त्व श्रुतयोः स्यादितरः ॥ २७१७ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१०८०॥
www.jainelibrary.org