SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Receolacsca बदत्तिः। पुवपवण्णोऽणाहारगो दुगं सो भवंतरालम्मि । चरणं सेलेसाइसु इयरो त्ति दुगं अपजत्तो ॥ २७१८ ॥ विशेषा. गतार्था, नवरं 'चरण सेलेसाइसु त्ति' आदिशब्दात् समुद्धातपरिग्रहः । ततश्च शैलेश्यां समुद्धाते च केवल्पनाहारकश्चरणस्योप लक्षणत्वात् सम्यक्त्वसामायिकं चारित्रसामायिकं चाश्रित्य पूर्वप्रतिपन्नः प्राप्यते । इतरस्त्वपर्याप्तको देवादिजन्मकाले सम्यक्त्व श्रुतलक्षण॥१०८१॥ सामायिकद्विकमाश्रित्य पूर्वप्रतिपन्नो लभ्यत इति ॥ २७१८ ॥ सांप्रतं सुप्त-जन्मद्वारद्वयव्याचिख्यास येदमाह निदाइ भावओवि य जागरमाणो चउण्हमण्णयरं । अंडयं तह पोय-जरो-ववाइ दो तिणि चउरो वा॥२७१९॥ इह सुप्तो द्विविधः- द्रव्यसुप्तः, भावमुप्तश्च । एवं जाग्रदपीति । तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्तु मिथ्यादृष्टिः। तथा द्रव्य जागरो निद्रारहितः, भावजागरः सम्यग्दृष्टिः । तत्र निद्रया भावतोऽपि च जाग्रचतुर्णा सामायिकानामन्यतरत् प्रतिपद्यते । 'पूर्वप्रति पन्नस्त्वस्त्येव' इत्यध्याहारः । अपिशब्दो विशेषणे । किं विशिनष्टि ।। भावजागरः सम्यग्दृष्टि आद्यसामायिके प्रतीत्य पूर्वप्रतिपन्न KO एव व्यवहारनयमतेन भवेत् , निश्चयनयमतेन तु तत्प्रतिपत्तापि भवति । चरणं देशविरतिं चाश्रित्य पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च | भवति । निद्रासुप्तस्तु चतुर्णामपि प्रतिपनो भवति, न तु प्रतिपद्यमानकः, निद्रासुप्तस्य तथाविधविशुद्धयादिसामग्यभावात् । भावसुप्तस्तूभयविकलः, तस्य मिथ्यादृष्टित्वात : वक्ष्यति च- "मिच्छो उ भावसुत्तो न पवजई" इति । अथवा, नियमतो निश्चय-व्यवहारनयाभिप्रायात् स भावसुप्तः सम्यक्त्व-श्रुतसामायिकद्वयप्रतिपत्तिकाले सम्यग्दृष्टिा मिथ्यादृष्टिाऽभिहितः; तथा च वक्ष्यते- 'सोऽहवा नयमयाओ, सम्मो वा मिच्छो वा निच्छय-ववहारओऽभिहिओ' इति । इदमुक्तं भवति-निश्चयनयस्य सम्यग्दृष्टिः सम्यक्त्वं प्रतिपद्यते, व्यवहारनयस्य तु मिथ्यादृष्टिः सम्यक्त्वं प्रतिपद्यते । अतो व्यवहारनयमतेन भावसुप्तो मिथ्यादृष्टिः सम्यक्त्वादिसामायिकद्वयस्य प्रतिपत्ता लभ्यत इति । जन्म चतुर्विधम्- अण्ड जम् , पोतजम् , जरायुजम् , औपपातिकं चेति । तत्राण्डजा हंसादयः, पोतना हस्त्यादयः, जरायुजा मनुष्याः, औपपातिका देव-नारकाः । एतेषां यथासंभवं द्वे, त्रीणि, चत्वारि वा सामायिकानि भवन्ति । तत्र हंसादयो द्वे त्रीणि वाऽऽद्यसामायिकानि कदाचित् प्रतिपद्यन्ते पूर्वप्रतिपन्नास्त्वेषां ते नियमतः सन्येव । एवं पोतजा हस्त्यादयोऽपि वक्तव्याः । ॥१०८१॥ Paneer p esaas पूर्वप्रपन्नोऽनाहारको द्विकं स भवान्तराले । चरणं शलेश्यादिवितर इति हिकमपर्याप्तः ॥ २७१८॥ २ निद्या भावतोऽपि च जागच्चतुर्णामन्यतरत् । अण्ड तथा पोत-जरो-पपाता दे त्रीणि चत्वारि वा ॥ २७१९॥ ३ गाथा २७२१ । Jain Educationa.Inte For Personal and Price Use Only aalaww.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy