________________
वृहद्वत्तिः।
विशेषा० ॥१०७३||
मष्टानामपि प्रदेशानां समये रुचक इति परिभाषा । अयं चाष्टप्रदेशिको रुचकः समस्ततिर्यग्लोकमध्यवर्ती गोस्तनाकारः क्षेत्रतः पण्णामपि दिशां चतसृणामपि च विदिशां प्रभवो मन्तव्यः; उक्तं च
"अट्ठपएसो रुयगो तिरियलोयस्स मज्झयारम्मि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ १॥" ___अमाच्च रुचकाद् दिशो विदिशश्च यथा प्रभवन्ति तथोच्यते- यथोक्तरुचकाद् बहिश्चतसृष्वपि दिक्षु प्रत्येकमादौ द्वौ द्वौ नमःप्रदेशौ भवतः, तदअतश्चत्वारः, तत्पुरतः पद्, ततोऽप्यग्रतोऽष्टौ व्योमप्रदेशा इत्येवं द्वयादिव्युत्तरश्रेण्या चतसृष्वपि दिक्षु पृथग नेतव्यम् । तत एताः शकटोद्विसंस्थानाः पूर्वादिका महादिशश्चतस्रो भवन्ति । एतासां च चतसृणामपि दिशां चतुर्वन्तरालकोणेष्वेकैकनभ-प्रदेशनिष्पना अनुत्तरा यथोत्तरं वृद्धिरहिताश्छिन्नमुक्तावलीसंस्थिताश्चतस्र एव विदिशो भवन्ति । ऊर्ध्वं तु चतुरो नभन्मदेशानादौ कृत्वा यथोत्तरं वृद्धिरहितत्वाच्चतुःप्रदेशिकैव रुचकनिभा च चतुरस्रदण्डाकारकैव भवति, अधोऽप्येवंप्रकारा द्वितीयेति; उक्तं च
"पएसाइदुरुत्तर एगपएसा अणुत्तरा चेव । चउरो चउरो य दिसा चउरो य अणुत्तरा दोणि ॥ १॥
सगडदिसंठियाओ महादिसाओ हवंति चत्तारि । मुत्तावलीव चउरो दो चेव य होति रुयगनिभा ॥२॥" अत्र स्थापना
TTER
, अष्टप्रदेशो रुचकस्तियग्लोकस्य मध्ये । एष प्रभवो दिशामेष एव भवोऽनुदिशाम् ॥1॥ २ द्विप्रदेशादियुत्तरकप्रदेशा अनुत्तरा चैव । चतस्रश्चतस्रश्च दिशश्चतुरश्चानुत्तरे द्वे ॥१॥
शकटोद्विसंस्थिता महादिशो भवन्ति चतस्रः । मुक्तावलीव चतुरोटे एव च भवतो रुचकनिभे ॥२॥
RPORA
॥१०७३॥
For Personal