SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ इह चैकैकपरमाणुस्थाने यदि द्वयणुकादीनामनन्ताणुकपर्यन्तानां स्कन्धानामवगाहना क्रियते तदापि द्रव्यदिगियं भवति विशेषा दशदिगुत्थाननिबन्धनत्वात् । अत उक्तमुत्कृष्टमनन्तप्रदशिकमिति । अस्यापि जघन्यतस्त्रयोदशस्वेव प्रदेशेष्ववगाहः, उत्कृष्टतस्त्वसं ख्येयेष्वपि ॥ ॥१०७२॥ ___ आह- नन्वत्र यतो द्रव्याद् दशानां दिशां प्रभव उन्मीलना भवति तद् द्रव्यं दिक्त्वेन विवक्षितम् , तदत्र पृच्छामः- तज्जघन्यतस्त्रयोदशभिरेव प्रदेशैर्भवति न हीनाधिकरित्यत्र का युक्तिः । अत्रोच्यते- इह मध्ये तावदेकपरमाणुरवधौ व्यवस्थाप्य एव, तमन्तरेण दिग्व्यवस्थायाः कर्तुमशक्यत्वात् । तस्य च चतसृष्वपि दिवेककस्मिन् व्यवस्थापिते पण्णां दिशामेवोन्मीलना भवति, न विदिशाम् , एकस्मात् परमाणोर्विदिगुत्थानाभावात् , षड्दिसंबन्धस्यैव परमाणोरभिधानात् , "एंगपएसोगाढं सत्तपएसा य से फुसणा" इति वचनात् । यदि हि परमाणोर्विदिसंबन्धः स्यात् तदैकादशप्रदेशव स्पर्शना स्यात् , न सप्तपदेशेति भावः । For अतोऽन्येऽपि चतसृष्वपि दिक्षु चत्वारः परमाणवो व्यवस्थाप्यन्त इत्येवमेते नव भवन्ति । न चेत्थमपि विदिगुन्मीलना संपद्यते । ये ह्यपरेऽपि दिक्षु चत्वारो व्यवस्थापितास्तैः पुनरपि दिश एव उत्तिष्ठन्ति न विदिशः, कोणानामन्तर्निविष्टत्वात् । अतो विदिगुन्मीलनार्थमपरेऽपि चत्वारः कोणेषु व्यवस्थाप्यन्त इति दशदिक्प्रभवं क्षेत्रं जघन्यतस्त्रयोदशभिरेवाणुभिर्भवति, न हीनाधिकैरिति । स्थापनाप्यत्र | परमार्थतश्चेतस्येवावधारणीया । यच्चेह तदुपदर्शनं तद् मुग्धविनेयजनानुग्रहार्थमेवावगन्तव्यम् , यथावदस्या दर्शयितुमशक्यत्वादित्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः- 'बिंति दसाणुगमित्यादि' अन्ये तु व्याख्यातारो दशस्वपि विश्वकैकं परमाणु व्यवस्थाप्य जघन्यतो दशाणुकं द्रव्यं द्रव्यादगिति ब्रुवते । तदेतद् न युक्तम् , यस्माद् दशदिगाकारं दशदिकं द्रव्यमनुयोगवेदिभिश्चतुरस्रमेव दृष्टम् , तच्च पूर्वदर्शितस्थापनानुसारतो भावनीयम् । यत्तु दशाणुकं द्रव्यं दशसु दिक्षु स्थाप्यते तद् वृत्ताकारमेव भवति, अतो-ऽचतुरस्त्रत्वात् तद् द्रव्यादिगू न भवति । किश्च, यद्यवधौ परमाणुन व्यवस्थाप्यते तदा तन्निरपेक्षा दिकल्पना कर्तुं न शक्यते, तव्यवस्थापने वेकादशपरमाणुसंख्यामाप्तेर्दशाणुकत्वहानिः प्राप्नोति । अतो यत् किश्चिदेतदिति । तदेवमुक्ता द्रव्यदिक् ॥ सांप्रतं क्षेत्रदिशमभिधित्सुराह- 'खेतदिसेत्यादि' अथ क्षेत्रदिगुच्यते । सा च मेरुमध्येऽष्टप्रदशिकरुचकाद् भावनीया; तथाहि - तिर्यग्लोकस्य मध्यभागे आयाम-विष्कम्भाभ्यां प्रत्येक रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लको द्वौ नभःप्रदेशपतरौ विद्यते । तयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते । तत्र च मध्य उपरितनपतरस्य ये चत्वारो नभःप्रदेशास्तथाऽधस्तनप्रतरस्य तु ये चत्वारो व्योमप्रदेशास्तेषाम १ एकप्रदेशावगावं सप्तपदेशा च तस्य स्पर्शना। २. हि रत्नप्रभावृथिव्या मध्य' । RSSसमापन समार P ROCTO ॥१०७२॥ Jan Education Internadae For Personal and Price Use Only walwww.jainabrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy