Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 85
________________ विशेषा० ।।१०८३ Bamoole आयुर्वर्जानां ज्ञानावरणादिकर्मणां त्रिंशत्सागरोपमकोटीकोव्यादिकायामुत्कृष्टस्थितौ वर्तमानो जीवश्चतुणीमपि सामायिकानां न प्रतिपद्यमानको न चापि पूर्वप्रतिपन्नः प्राप्यते, तस्यातिसंक्लिष्टत्वेन तदसंभवात् । आयुषस्त्रयस्त्रिंशत्सागरोपमलक्षणायामुत्कृष्टस्थिती बृहद्वा वर्तमानोऽनुत्तरसुरः पूर्वप्रथमसामायिकद्वयस्य प्रतिपन्नः प्राप्यते, सप्तमपृथिव्यप्रतिष्ठाननारकस्तु षण्मासावशेषायुस्तथाविधविशुद्धियुक्त. स्वादस्यैव सामायिकद्वयस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च लभ्यते; तथा च वक्ष्यति- 'आउक्कोसे दोण्णि उ पवज्जमाणो पवण्णो वा' इति । जघन्यायां तु क्षुल्लकभवग्रहणलक्षणायामायुःस्थितौ वर्तमानो निगोदादिश्चतुर्णामपि न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नः प्राप्यते, तस्याविशुद्धत्वेन तदयोग्यत्वादिति । शेषे तु ज्ञानावरणादिकर्मसप्तके जघन्यामन्तर्मुहूर्तादिकां स्थिति बनन् दर्शनसप्तकातिक्रान्तोऽन्तकृत्केवलित्व प्राप्स्यन् क्षपको देशविरतिवर्जितस्य सम्यक्त्व-श्रुत-सर्वविरतिलक्षणसामायिकत्रयस्य पूर्वप्रतिपन्नो लभ्यते, तस्यातिविशुद्धत्वेनातिजघन्यस्थितिबन्धकत्वात् , क्षपकस्य च देशविरतेरसंभवात् , सम्यक्त्वादिप्रतिपत्तेश्च पूर्वमेव संजातत्वादिति । जघन्यस्थितिकर्मवन्धकत्वेन चेह जघन्यस्थितिकत्वं गृह्यते, न तूपातकर्मसत्तापेक्षयेति, व्याख्यानतो विशेषप्रतिपत्तेरिति । 'अजहण्णमणुकोसे इत्यादि' अजघन्योत्कृष्टे तु कर्मण्यष्टानामपि कर्मणां मध्यमायां स्थितौ वर्तमानो जीव इत्यर्थः । चतुर्णामपि सामायिकानां प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च लभ्यते ।। इति नियुक्तिगाथार्थः ॥ २७२३ ॥ अथ भाष्यम्उकोसहिइकम्मो न पवतो न यावि पडिवण्णो। आउक्कोसे दुण्णि उ पवजमाणो पवण्णो वा ॥२७२४॥ न जहण्णाउट्ठिईए पडिवजइ नेय पुव्वपडिवण्णो । सेसे पुव्वपवण्णो देसविरइवज्जिए होज ॥ २७२५ ॥ व्याख्याताथै एव ।। २७२४ ॥ २७२५॥ सांप्रतं वेद-संज्ञा-कषायद्वारत्रयं व्याचिख्यासुराहचउरो वि तिविहवेए चउसु विसण्णासु होइ पडिवत्ती । हेट्ठा जहा कसाएसु वणियं तह य इहयं पि ॥२७२६॥ १ क. ग. घ. 'थिवीना'। २ उत्कृष्टस्थितिकर्मा न प्रपद्यमानो न चापि प्रतिपन्नः । आयुरुत्कर्षे द्वे तु प्रपद्यमानः प्रपन्नो वा ।। २७२४ ॥ om१०८३॥ न जघन्यायुःस्थितौ प्रतिपद्यते नैव पूर्वप्रतिपन्नः । शेषे पूर्वप्रपन्नो देशविरतिवर्जिते भवेत् ॥ २७२५ ॥ ३ चत्वार्यपि निविधवेदे चतसृष्वपि संज्ञासु भवति प्रतिपत्तिः । अधो यथा कषायेषु वर्णितं तथा चेहापि ॥ २७२६ ॥ For Personal and Price Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202