________________
विशेषा०
।।१०८३
Bamoole
आयुर्वर्जानां ज्ञानावरणादिकर्मणां त्रिंशत्सागरोपमकोटीकोव्यादिकायामुत्कृष्टस्थितौ वर्तमानो जीवश्चतुणीमपि सामायिकानां न प्रतिपद्यमानको न चापि पूर्वप्रतिपन्नः प्राप्यते, तस्यातिसंक्लिष्टत्वेन तदसंभवात् । आयुषस्त्रयस्त्रिंशत्सागरोपमलक्षणायामुत्कृष्टस्थिती बृहद्वा वर्तमानोऽनुत्तरसुरः पूर्वप्रथमसामायिकद्वयस्य प्रतिपन्नः प्राप्यते, सप्तमपृथिव्यप्रतिष्ठाननारकस्तु षण्मासावशेषायुस्तथाविधविशुद्धियुक्त. स्वादस्यैव सामायिकद्वयस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च लभ्यते; तथा च वक्ष्यति- 'आउक्कोसे दोण्णि उ पवज्जमाणो पवण्णो वा' इति । जघन्यायां तु क्षुल्लकभवग्रहणलक्षणायामायुःस्थितौ वर्तमानो निगोदादिश्चतुर्णामपि न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नः प्राप्यते, तस्याविशुद्धत्वेन तदयोग्यत्वादिति । शेषे तु ज्ञानावरणादिकर्मसप्तके जघन्यामन्तर्मुहूर्तादिकां स्थिति बनन् दर्शनसप्तकातिक्रान्तोऽन्तकृत्केवलित्व प्राप्स्यन् क्षपको देशविरतिवर्जितस्य सम्यक्त्व-श्रुत-सर्वविरतिलक्षणसामायिकत्रयस्य पूर्वप्रतिपन्नो लभ्यते, तस्यातिविशुद्धत्वेनातिजघन्यस्थितिबन्धकत्वात् , क्षपकस्य च देशविरतेरसंभवात् , सम्यक्त्वादिप्रतिपत्तेश्च पूर्वमेव संजातत्वादिति । जघन्यस्थितिकर्मवन्धकत्वेन चेह जघन्यस्थितिकत्वं गृह्यते, न तूपातकर्मसत्तापेक्षयेति, व्याख्यानतो विशेषप्रतिपत्तेरिति । 'अजहण्णमणुकोसे इत्यादि' अजघन्योत्कृष्टे तु कर्मण्यष्टानामपि कर्मणां मध्यमायां स्थितौ वर्तमानो जीव इत्यर्थः । चतुर्णामपि सामायिकानां प्रतिपद्यमानकः पूर्वप्रतिपन्नश्च लभ्यते ।। इति नियुक्तिगाथार्थः ॥ २७२३ ॥
अथ भाष्यम्उकोसहिइकम्मो न पवतो न यावि पडिवण्णो। आउक्कोसे दुण्णि उ पवजमाणो पवण्णो वा ॥२७२४॥
न जहण्णाउट्ठिईए पडिवजइ नेय पुव्वपडिवण्णो । सेसे पुव्वपवण्णो देसविरइवज्जिए होज ॥ २७२५ ॥ व्याख्याताथै एव ।। २७२४ ॥ २७२५॥ सांप्रतं वेद-संज्ञा-कषायद्वारत्रयं व्याचिख्यासुराहचउरो वि तिविहवेए चउसु विसण्णासु होइ पडिवत्ती । हेट्ठा जहा कसाएसु वणियं तह य इहयं पि ॥२७२६॥ १ क. ग. घ. 'थिवीना'। २ उत्कृष्टस्थितिकर्मा न प्रपद्यमानो न चापि प्रतिपन्नः । आयुरुत्कर्षे द्वे तु प्रपद्यमानः प्रपन्नो वा ।। २७२४ ॥
om१०८३॥ न जघन्यायुःस्थितौ प्रतिपद्यते नैव पूर्वप्रतिपन्नः । शेषे पूर्वप्रपन्नो देशविरतिवर्जिते भवेत् ॥ २७२५ ॥ ३ चत्वार्यपि निविधवेदे चतसृष्वपि संज्ञासु भवति प्रतिपत्तिः । अधो यथा कषायेषु वर्णितं तथा चेहापि ॥ २७२६ ॥
For Personal and Price Use Only