SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०८४ ॥ Jain Education Interna चत्वार्यपि सामायिकानि स्त्री-पुं-नपुंसकलक्षणे त्रिविधेऽपि वेदे प्राप्यन्ते । इदमुक्तं भवति चत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः संभवति, पूर्वप्रतिपन्नस्त्वस्त्येव । अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात्, न तु प्रतिपद्यमानकः । तथा, चतसृष्वपि संज्ञास्वाहार-भय-मैथुन - परिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति प्रतिपत्तिः- प्रतिपद्यमानको भवति, न न भवतीत्यर्थः, पूर्वप्रतिपन्नकस्त्वस्त्येव । 'हेव त्ति' अधो यथा 'पेडमिल्लुआण उदए नियमा संजोयणाकसायाणं, इत्यादिना कषायेषु वर्णितं तथेहापि वर्णयितव्यम्, सामान्येन तु सकषायी चतुर्णामपि प्रतिपद्यमानकः, पूर्वप्रतिपन्नश्च भवति । अकपायी तु च्छद्मस्थवीतरागो देशविरतिवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानक इति । गतं वेदादि द्वारत्रयम् ।। २७२६ । सांप्रतमायुर्ज्ञानद्वारद्वयाभिधित्सया प्राह सेंखेज्जाऊ चउरो भयणा सम्म सुए संखवासाणं । ओहेण विभागेण य नाणी य पडिवज्जए चउरो ॥ २७२७॥ संख्यातवर्षायुर्जीवचत्वारि सामायिकानि प्रतिपद्यते, 'प्रतिपन्नस्त्वस्त्येव' इति शेषः । 'भयणेत्यादि' भजना विकल्पना सम्यक्त्व- श्रुतसामायिकयोरसंख्येयवर्षायुषाम् । इयमत्र भावना विवक्षितकालेऽसंख्येयवर्षायुषां सम्यक्त्व- श्रुतयोः प्रतिपद्यमानकः संभवति पूर्वप्रतिपन्नस्त्वस्त्येवेति द्वारम् । 'ओहेणेत्यादि' ओधेन सामान्यतो निश्रयनयमतेन ज्ञानी चत्वार्यपि सामायिकानि प्रतिपद्यते, व्यवहार नयमतेन त्वज्ञानिन एव सम्यक्त्व श्रुतप्रतिपत्तेः । पूर्वप्रतिपन्नस्तु ज्ञानी चतुर्णामप्यस्त्येव । विभागेन च भेदेन यदा ज्ञानी चिन्त्यते तदा मति श्रुतज्ञानी द्वे सम्यक्त्व- श्रुतसामायिके युगपत् प्रतिपद्यते। देश- सर्वविरतिसामायिके तु भजनया प्रतिपद्यते । पूर्वप्रतिपन्नस्तु चतुर्णामप्यस्त्येव । अवधिज्ञानी तु सम्यक्त्व श्रुतसामायिकयोः पूर्वप्रतिपन्न एव, न प्रतिपद्यमानकः । देशविरतिसामायिकं तु न प्रतिपद्यते । देव नारक-यति-श्रावका हि चत्वारोऽवधिस्वामिनः । तत्राद्यत्रयस्य देशविरतिप्रतिपत्तेरसंभव एव, श्रावकोऽप्यवधिज्ञानं प्राप्य देशविरतिं प्रतिपद्यत इत्येवं न, किन्तु पूर्वमभ्यस्तदेशविरतिगुणः पश्चादवधिं प्रतिपद्यते, देशविरत्यादिगुणमाप्तिपूर्वकत्वादवधिज्ञानप्रतिपत्तेरित्येतावद् गुरुभ्योऽस्माभिरवगतम्, तत्वं तु केवलिनो विदन्ति । सर्वविरतिसामायिकं तु प्रतिपद्यते । पूर्वप्रतिपन्नस्तु सर्वेषामप्यस्त्येव । मनःपर्यायज्ञानी तु देशविरतिरहितसामायिकत्रयस्य पूर्वप्रतिपन्न एव न तु प्रतिपद्यमानः, युगपद्वा सह तेन वा चारित्रं १ गाथा १२२६ । २ संख्येयायुश्ववारि भजना सम्यक् श्रुतयोरसंख्यवर्षाणाम् ओधेन विभागेन च ज्ञानी च प्रतिपद्यते चत्वारि ॥। २७२७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१०८४ ॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy