Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥१०६४॥
सम्मं निसग्गओऽहिगमओ य दसहा तप्पभेयाओ। कारय-रोयग-दीवगमहवा खइयाइयं तिविहं ॥२६७५॥ सुत्त-त्थ-तदुभयाई बहुहा वा सुत्तमक्खरसुयाई । खइयाई तिहा य सामाइयाई वा पंचहा चरणं ॥२६७६॥ वृहद्वत्तिः।
दुविहतिविहाइणाणुव्वयाइं बहु-एगदेसचारित्तं । वीसुं सव्वाइं पुण पजायओऽणंतभेयाइं ॥ २६७७ ॥
व्याख्या- सम्यक्त्वं तावद् निसर्गतोऽधिगमतश्चेत्येवं द्विधा भवति । तत्र निसर्गः स्वभावस्तस्मात् सम्यक्त्वं भवति, यथा नारकादीनाम् , अधिगमस्तीर्थकरादीनां समीपे धर्मश्रवणं तस्मात् सम्यक्त्वं भवतीति प्रतीतमेव, यथा स्कन्दकादीनाम् । अथवा, 'तप्पभेयाउ त्ति' तस्य सम्यक्त्वस्य प्रकृष्टः मूक्ष्मो भेदस्तस्मात् प्रभेदतश्चिन्त्यमानमिदं द्विविधमपि समुदितं दशधा भवति । तत्रौपशमिक-सास्वादन-क्षायोपशमिक-वेदक-क्षायिकभेदाद् निसर्ग पञ्चधा, एवमधिगमसमुत्थमपि पञ्चधैव । तदेवं समुदितं सद् दशधा भवति । अथवा, कारक-रोचक-दीपकभेदात् क्षायिक-क्षायोपशमिको-पशमिकभेदाद् त्रिधा सम्यक्त्वं भवति । तत्र क्षायिकादयो भेदाः प्रतीता एव । कारकादीनां त्वयमर्थः- यस्मिन् सम्यक्त्वे सति सदनुष्ठानं श्रद्धत्ते, सम्यक् करोति च, तत् कारयति सदनुष्ठानमिति कारकं सम्यक्त्वमुच्यते । एतच्च साधूनां द्रष्टव्यम् । यत्तु सदनुष्ठानं रोचयत्येव केवलम् , न पुनः कारयति तद् रोचकम् , यथा श्रेणिकादीनाम् । यत्तु स्वयं तत्त्वश्रद्धानरहित एव मिथ्यादृष्टिः परस्य धर्मकथादिभिस्तत्वश्रद्धानं दीपयत्युत्पादयति तत्संबन्धि सम्यक्त्वं दीपकमुच्यते, यथाऽङ्गारमर्दकादीनामिदं सम्यक्त्वमुच्यते, परमार्थतस्तु मिथ्यात्वमेवेति । मूत्रा-ऽर्थ-तदुभयभेदात् सूत्र श्रुतसामायिकं त्रिधा भवति । 'अक्खर सण्णी सम्म साइयं खलु सपज्जवसियं च, गमियं अङ्गपविलु' इत्यादिना प्रतिपादितादक्ष| रश्रुता-ऽनक्षरश्रुतादिभेदाद् बहुधा वा श्रुतसामायिकं भवति । चरणं चारित्रसामायिकं पुनः क्षायिकम् , क्षायोपशमिकम् , औपशमिकमित्येवं त्रिधा भवति । यदि वा, सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिक-मूक्ष्मसंपराय-यथाख्यातभेदात् पञ्चधा तद् भवति । यत् त्वणुव्रतायेकदेशविषयं चारित्रं देशविरतिसामायिकमित्यर्थः, तद् बहुधा बहुभेदं भवति । केन? इत्याह- 'दुविहतिविहाइण ति।
१ सम्यक्त्वं निसर्गतोऽधिगमतश्च दशधा तत्प्रभेदात् । कारक-रोचक-दीपकमथवा क्षायिकादिकं विविधम् ॥ २६७५ ॥
सूत्राऽर्थ-तदुभयानि बहुधा वा सूत्रमक्षरधुतादि । क्षायिकादि त्रिधा च सामायिकादि वा पत्रधा चारित्रम् ॥ २५७५ ॥ द्विविध-त्रिविधादिनाणुवतानि बढेक-देशचारित्रम् । विष्वक् सर्वाणि पुनः पर्यायतोऽनन्तभेदानि ।। २६७७॥ २ गाथा ४५४ ।
१०६४॥
For Posod
e
On
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202