Book Title: Visheshavashyak Bhashya Part 06
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१०२५॥
Jain Educators inted
अह कुणसिद्धत्थासु मुच्छं धुवं सरीरे वि । अक्केजदुभयरे काहिसि मुच्छं विसेसेणं ॥ २५६४ ॥ वत्थाइगंथरहिया देहा-SSहाराइमित्तमुच्छाए । तिरिय - सबराओ नणु हवंति निरओवगा बहुसो || २५६५॥ अपरिग्गहा वि परसंतिए मुच्छा - कसाय-दोसेहिं ! अविणिग्गहियप्पाणो कम्ममलमणंतमजंति ॥२५६६॥ देहत्थवत्थ-मल्ला- ऽणुलेवणा-ऽऽभरणधारिणो केइ । उवसग्गाइसु मुणओ निस्संगा केवलमुविंति || २५६७ ॥ एताः सुगमा एव, नवरं यदि यो मूर्च्छाहेतुः स ग्रन्थः परिग्रहः, परिग्रहत्वादेव च त्याज्यः; ततस्तर्हि 'मुच्छावर त्ति' मूर्च्छातो वक्ष्यमाणयुक्त्या मूर्च्छायुक्तस्य देहाऽऽहारादिकस्तत्र हन्त ! कथमग्रन्थः ? अपि तु ग्रन्थ एव, ततः सोऽपि परित्याज्यः प्राप्नोति । कथं वा ममत्वमूर्च्छारहितत्वेनासङ्गस्य सङ्गविप्रमुक्तस्य साधोर्वस्त्रादिकं ग्रन्थो गीयते भवता ? - न भवत्येव तथाभूतस्य तद् ग्रन्थ इति । अथ देहाऽऽहारादिषु ते तव मूर्च्छा नास्ति, मोक्षसाधनमत्या तेषां ग्रहणात् तर्हि मोक्षसाधनत्वेन तुल्येष्वपि वस्त्रादिषु तव हन्त ! का मूर्च्छा ? इति । अथ स्थूलेषु वाह्यत्वात्, क्षणमात्रेणैवानि तस्करायुपद्रवगम्यत्वात् सुलभत्वात्, कतिपयदिनान्ते स्वयमेव विनाशधर्मकत्वात् शरीराद् नितरां निःसारेषु वस्त्रादिषु मूर्च्छा करोषि स्वम् तर्हि ध्रुवं निश्चितं शरीरेऽपि विशेषतो मूर्च्छा करिष्यसि । कुतो विशेषेण तत्र तत्करणमित्याह- 'अक्केज्ज दुल्लभयरे त्ति' विभक्तिव्यत्ययात् शरीरस्याक्रय्यत्वात् क्रयेणालभ्यत्वात् । न हि वस्त्रादिवत् शरीरं क्रयेण क्वापि लभ्यते । अत एव वस्त्राद्यपेक्षया दुर्लभतरत्वात्, तथा, तदपेक्षयैवान्तरङ्गत्वात्, बहुतरदिनावस्थायित्वात्, त्रिशिष्टतरकार्यसाधकत्वाच्च विशेषेण शरीरे सूर्च्छा करिष्यसीति । अथ देहादिमात्रे या मूर्च्छा सा स्वल्पैव, वस्त्रादिग्रन्थमूर्च्छा तु वही, ततो देहादिमात्रमूर्च्छासंभवेऽपि नमश्रमणकाः सेत्स्यन्ति, न भवन्तः, बहुपरिग्रहत्वादित्याह - 'बत्थाइ -' इत्यादि गाथात्रयम् । अयमिह संक्षेपार्थः - तिर्यक् शवरादयोऽपरिग्रहा अपि, तथा शेषमनुष्या अपि महादारिद्र्योपहताः क्लिष्टमनसोऽविद्यमानतथाविधपरिग्रहा अप्यनिविगृहीतात्मानो लोभादिकषायवर्गवशीकृताः परसत्केष्वपि विभवेषु मूच्छीकपायादिदोषैः कर्ममलमनन्तमर्जयन्ति,
१२९
१ अथ करोषि स्थूलवस्त्रादिकेषु मूच्छी ध्रुवं शरीरेऽपि । अक्रेयदुर्लभतरे कारिष्यसि मूच्छ विशेषेण || २५६४ ॥ वस्त्रादिग्रन्थरहिता देहा-sऽहारादिमात्रमूर्च्छया । तिर्यक् शवरादयो ननु भवन्ति निरयोपगा बहुशः ॥ २५६५ ॥ अपरिग्रहा अपि परसाकेषु मूर्च्छा-कषाय-दोषः । अविनिगृहीतात्मानः कर्ममलमनन्त नर्जयन्ति ।। २५६६ ।। देहस्थवस्त्र-माल्या-ऽनुलेपना-ऽऽभरणधारिणः केचित् । उपसर्गादिषु मुनयो निःसङ्गाः केवलमुपयन्ति ॥ २५६७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१०२५॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202