SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०२५॥ Jain Educators inted अह कुणसिद्धत्थासु मुच्छं धुवं सरीरे वि । अक्केजदुभयरे काहिसि मुच्छं विसेसेणं ॥ २५६४ ॥ वत्थाइगंथरहिया देहा-SSहाराइमित्तमुच्छाए । तिरिय - सबराओ नणु हवंति निरओवगा बहुसो || २५६५॥ अपरिग्गहा वि परसंतिए मुच्छा - कसाय-दोसेहिं ! अविणिग्गहियप्पाणो कम्ममलमणंतमजंति ॥२५६६॥ देहत्थवत्थ-मल्ला- ऽणुलेवणा-ऽऽभरणधारिणो केइ । उवसग्गाइसु मुणओ निस्संगा केवलमुविंति || २५६७ ॥ एताः सुगमा एव, नवरं यदि यो मूर्च्छाहेतुः स ग्रन्थः परिग्रहः, परिग्रहत्वादेव च त्याज्यः; ततस्तर्हि 'मुच्छावर त्ति' मूर्च्छातो वक्ष्यमाणयुक्त्या मूर्च्छायुक्तस्य देहाऽऽहारादिकस्तत्र हन्त ! कथमग्रन्थः ? अपि तु ग्रन्थ एव, ततः सोऽपि परित्याज्यः प्राप्नोति । कथं वा ममत्वमूर्च्छारहितत्वेनासङ्गस्य सङ्गविप्रमुक्तस्य साधोर्वस्त्रादिकं ग्रन्थो गीयते भवता ? - न भवत्येव तथाभूतस्य तद् ग्रन्थ इति । अथ देहाऽऽहारादिषु ते तव मूर्च्छा नास्ति, मोक्षसाधनमत्या तेषां ग्रहणात् तर्हि मोक्षसाधनत्वेन तुल्येष्वपि वस्त्रादिषु तव हन्त ! का मूर्च्छा ? इति । अथ स्थूलेषु वाह्यत्वात्, क्षणमात्रेणैवानि तस्करायुपद्रवगम्यत्वात् सुलभत्वात्, कतिपयदिनान्ते स्वयमेव विनाशधर्मकत्वात् शरीराद् नितरां निःसारेषु वस्त्रादिषु मूर्च्छा करोषि स्वम् तर्हि ध्रुवं निश्चितं शरीरेऽपि विशेषतो मूर्च्छा करिष्यसि । कुतो विशेषेण तत्र तत्करणमित्याह- 'अक्केज्ज दुल्लभयरे त्ति' विभक्तिव्यत्ययात् शरीरस्याक्रय्यत्वात् क्रयेणालभ्यत्वात् । न हि वस्त्रादिवत् शरीरं क्रयेण क्वापि लभ्यते । अत एव वस्त्राद्यपेक्षया दुर्लभतरत्वात्, तथा, तदपेक्षयैवान्तरङ्गत्वात्, बहुतरदिनावस्थायित्वात्, त्रिशिष्टतरकार्यसाधकत्वाच्च विशेषेण शरीरे सूर्च्छा करिष्यसीति । अथ देहादिमात्रे या मूर्च्छा सा स्वल्पैव, वस्त्रादिग्रन्थमूर्च्छा तु वही, ततो देहादिमात्रमूर्च्छासंभवेऽपि नमश्रमणकाः सेत्स्यन्ति, न भवन्तः, बहुपरिग्रहत्वादित्याह - 'बत्थाइ -' इत्यादि गाथात्रयम् । अयमिह संक्षेपार्थः - तिर्यक् शवरादयोऽपरिग्रहा अपि, तथा शेषमनुष्या अपि महादारिद्र्योपहताः क्लिष्टमनसोऽविद्यमानतथाविधपरिग्रहा अप्यनिविगृहीतात्मानो लोभादिकषायवर्गवशीकृताः परसत्केष्वपि विभवेषु मूच्छीकपायादिदोषैः कर्ममलमनन्तमर्जयन्ति, १२९ १ अथ करोषि स्थूलवस्त्रादिकेषु मूच्छी ध्रुवं शरीरेऽपि । अक्रेयदुर्लभतरे कारिष्यसि मूच्छ विशेषेण || २५६४ ॥ वस्त्रादिग्रन्थरहिता देहा-sऽहारादिमात्रमूर्च्छया । तिर्यक् शवरादयो ननु भवन्ति निरयोपगा बहुशः ॥ २५६५ ॥ अपरिग्रहा अपि परसाकेषु मूर्च्छा-कषाय-दोषः । अविनिगृहीतात्मानः कर्ममलमनन्त नर्जयन्ति ।। २५६६ ।। देहस्थवस्त्र-माल्या-ऽनुलेपना-ऽऽभरणधारिणः केचित् । उपसर्गादिषु मुनयो निःसङ्गाः केवलमुपयन्ति ॥ २५६७ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥१०२५॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy