________________
विशेषा०
॥१०२६॥
Jain Educator Intem
००००
तद् बहुशो निरयोपगा भवन्ति, न मोक्षमापकाः । अन्ये तु महामुनयः केनचिदुपसर्गादिबुद्ध्या शरीर ।सज्जितमहामुल्य वस्त्रा भरणमाल्य- विलेपनादिसंयुक्ता अपि सर्वसङ्गविनिर्मुक्ता निगृहीतात्मानो जितलोभादिकपायरिपवः समासादितविमल केवला लोकाः सिद्धिमुपगच्छन्ति । तस्मादवश्यात्मनां क्लिष्टमनसां नाग्न्यमात्रमिदमकिञ्चित्करमेवेति || २५६२||२५६३||२५६४||२५६५||२५६६।२५६७॥
अथ यदुक्तम्- 'भयहेतुत्वेन वस्त्रादयस्त्याज्याः' इति । तत्र प्रतिविधानमाह-
ts भयऊ गंथो तो नाणाईण तदुबघाईहिं । भयमिइ ताइं गंथो, देहस्स य सावयाईहिं ॥ २५६८ ॥ अह मोक्खसाहणमईए न भयहेऊ वि ताणि ते गंथो । वत्थाइ मोक्खसाहणमईए सुद्धं कहं गंथो ? || २५६९॥ यदि यद् भयहेतुस्तद् ग्रन्थः, तर्हि ज्ञान दर्शन चारित्राणामपि तदुपधातकेभ्यः, देहस्य च श्वापदादिभ्यो भयमस्ति इति तान्यपि ग्रन्थः प्राप्नुवन्ति । शेषं व्याख्यातप्रायम् || २५६८ ।। २५६९ ।।
अथ यदुक्तम् — 'पैरिग्गहओ कसाय- मूच्छा भयाईय त्ति' । तत्रादिशब्दसंगृहीतं वस्त्रादीनां रौद्रध्यानहेतुत्वमभ्युपदर्श्य परिहरन्नाह -
सौरक्खणाणुबंधो रोज्झाणं ति ते मई हुज्जा । तुल्लमियं देहाइसु पसत्थमिह तं तहहावि || २५७० ॥ जे जत्तिया पगारा लोए भयहेअवो अविरयाणं । ते चेत्र य विरयाणं पसत्थभावाण मोक्खाय ॥ २५७१ ॥ व्याख्या - इहागमे रौद्रध्यानं चतुर्विधमुक्तम्, तद्यथा-"" से किं तं रोज्झाणं ? । रोद्दज्झाणे चउब्बिहे पश्नत्ते; तं जहा- हिंसाणुबंधी, मोसाणुबंधी, तेयाणुबंधी, सारक्खणाणुबंधी" । तत्र हिंसायाः सववधादिरूपाया अनुबन्धः सातत्येन चिन्तनं यत्र तद् हिंसानुबन्धि |
१ यदि भयहेतुर्ग्रन्थस्ततो ज्ञानादीनां तदुपधातिभ्यः । भयमिति तानि ग्रन्थो देहस्य च श्वापदादिभ्यः ॥ २५६८ ॥
अथ मोक्षसाधनमत्या न भयहेतवोऽपि तानि ते ग्रन्थः । वस्त्रादि मोक्षसाधनमत्या शुद्धं कथं ग्रन्थः ? ।। २५६९ ॥ २ गाथा २५५५ ।।
३ संरक्षणानुबन्धो रौद्रध्यानमिति ते मतिर्भवेत् । तुल्यमिदं देहादिषु प्रशस्तमिह तत् तथेहापि ।। २५७० ॥
ये यावन्तः प्रकारा लोके भयहेतवोऽविरतानाम् । त एव च विरतानां प्रशस्त भावानां मोक्षाय ।। २५७१ ॥
४ अथ किं तद् रौद्रध्यानम् ? रौद्रध्यानं चतुर्विधं प्रज्ञप्तम् तद्यथा- हिंसानुबन्धि, मृषानुबन्धि, स्तेयानुबन्धि, संरक्षणानुवन्धि ।
For Personal and Private Use Only
ISS
बृहद्वृत्तिः ।
||१०२६॥
www.jainelibrary.org