________________
B
विशेषा० ॥१०२७॥
IHARIRADIO
पापा बनना
मृषाऽसत्यं तस्यानुबन्धो यत्र तत् तथा । स्तेयं चौर्य तस्यानुवन्धो यत्र तत् तथा । संरक्षणं सारणाद्युपायैस्तस्करादिभ्यो निजवित्तस्य संगोपनं तस्यानुवन्धः सातत्येन चिन्तनं यत्र रौद्रध्याने तत् तथा । एवं च सति संरक्षणानुबन्धो रौद्रध्यानस्य चतुर्थो भेदः। स च वस्त्रादौ गृहीते किलावश्यंभावी, रौद्रध्यानभेदत्वाच रौद्रध्यानमिति । एवं रौद्रध्यानहेतुत्वाद् वस्त्रादिकं दुर्गतिहेतुः, शस्त्रादिवत् , ततो न ग्राह्यमिति तव बुद्धिर्भवेत् : तर्हि यदुक्तयुक्त्या रौद्रध्यानं तदिदं देवानांपिय ! देहादिष्वपि तुल्यम् , तेष्वपि जलज्वलन-मलिम्लुच-श्वापदा-हि-विष-कण्टकादिभ्यः संरक्षणानुबन्धस्य तुल्यत्वात् । अतस्तेऽपि परित्याज्याः प्राप्नुवन्ति । अथेह देहादेर्मोक्षसाधनाङ्गत्वाद् यतनया तत्संरक्षणानुबन्धविधान प्रशस्तं न दोषाय । यद्येवम् , तर्हि तथा तेनागमप्रसिद्धेन यतनाप्रकारेणेहापि वस्त्रादौ संरक्षणानुबन्धविधानं कथं न प्रशस्तम् । ततः कथं वस्त्रादयोऽपि परित्याज्याः ? इति । अथवं ब्रूषे- वस्त्रादिपरिग्रह एव मूर्छादिदोषहेतुत्वाल्लोकस्य 'भवभ्रमणकारणम्' इत्येतदति प्रतीतं वस्त्रादिपरिग्रहवतः साधोरपि कथं न स्यात् ? इत्याह- 'जे जत्तियेत्यादि । इह ये यावन्तः शयन-पान-भोजन-गमना-ऽवस्थान-मनो-वाक्-कायचेष्टादयः प्रकारा अविरतानामसंयतानामप्रशस्ताध्यवसायवतां लोके भयहेतवो जायन्ते, त एव तावन्तः प्रकारा विरतानां संयतानां प्रशस्ताध्यवसायानां मोक्षायैव संपद्यन्ते । तस्माद् वस्त्रादिस्वीकारेऽपि नेतरजनवत् साधूनां मूलोच्छेदितलोभादिकषाय-भय-मोहनीयादिदोषाणां तदुद्भावितदोषः कोऽप्यनुषज्यत इति ॥ २५७० ॥ २५७१॥
अपिच, यदि वस्त्रादिकं ग्रन्थः, मूर्छादिहेतुत्वात् , कनकादिवदिति हेतु-दृष्टान्तोपन्यासमात्रेणैव वखादेग्रन्थत्वं साधयति भवान् , | तर्हि वयमपि तदुपन्यासमात्रेण कनकादेरप्यग्रन्थत्वं साधयामः । कथम् ? इत्याह----
आहारो व्व न गंथो देहत्थं विसघायणट्ठाए । कणगं पि तहा जुबई धम्मतेवासिणी मे त्ति ॥ २५७२ ॥
कनकं तथा युवतिश्च धर्मान्तेवासिनी मे ममेति बुद्धया परिगृह्णतो न ग्रन्थ इति सेवन्धः, एषा किल प्रतिज्ञा । कुतः ? इत्याहदेहार्थमिति कृत्वा, अयं च हेतुः, देहार्थत्वात्- देहप्रयोजनत्वात्-देहोपकारित्वादित्यर्थः । ननु युवतेदेंहोपकारित्वं किल प्रतीतम् , कनकस्य तु तत् कथम् ? इत्याह- 'विसघायणढाए त्ति' विषघातकत्वादित्यर्थः; उक्तं च___"विसघाय-रसायण-मंगल-च्छवि-णया-पयाहिणावत्ते । गुरुए अ ढज्झकुट्टे अट्ठ सुवण्णे गुणा होंति ॥ १॥"
आहार इव न प्रन्यो देहाथै विषघातनार्थतया । कनकमपि तथा युवतिधर्मान्तेवासिनी ममेति ॥ २५७२ ॥ १ विषघात-रसायन-मजल मछवि-नय-प्रदक्षिणावर्ताः । गुरुता च दचकुष्ठताऽट सुवर्णे गुणा भवन्ति ॥३॥
१०२७||
For Personal and
Use Only
www.janesbrary.org