SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥१०२८॥ இருதருது आहारवदिति दृष्टान्तः । कनक-युवत्यादयोऽपि न ग्रन्थः, देहार्थत्वात , आहारवदिति तात्पर्यम् ॥ २५७२ ॥ अत्राह- ननु यद्येवम् , तर्हि समुच्छिन्ना ग्रन्था-ऽग्रन्थविभागकथा, ग्रन्थत्वेन प्रसिद्धस्य कनकादेस्त्वयाऽग्रन्थत्वसाधनात् , | अग्रन्थत्वेन च ममाभिमतस्य देहस्य 'ग्रन्थो देहः, कषायादिहेतुत्वात् , कनकादिवत्' इत्येवं ग्रन्थत्वस्य साधनात् । ततो भवन्त एव कथयन्तु- को ग्रन्थः, कश्चाग्रन्थ इति ? । तदित्थमुपसन्नस्य परस्य वचनमाशङ्कयोपसंहारपूर्वकं ग्रन्था-ऽग्रन्थविभागमुपदिदर्शयिषुराह तम्हा किमत्थि वत्थु गंथोऽगंथो व सव्वहा लोए ?। गंथोऽगंथो व मओ मुच्छममुच्छाहिं निच्छयओ॥२५७३॥ वत्थाई तेण जं जं संजमसाहणमराग-दोसस्स । तं तमपरिग्गहो चिय परिग्गहो जं तदुवघाइं ॥२५७४॥ व्याख्या- तस्मात् किं नाम तद् वस्त्वस्ति लोके यदात्मस्वरूपेण सर्वथा ग्रन्थोऽग्रन्थो वा ?- नास्त्येवैतदित्यर्थः । ततश्च "मुच्छा परिग्गहो वुत्तो इइ बुत्तं महेसिणा" इत्यादिवचनाद् यत्र वसु-देहा-ऽऽहार-कनकादौ मूर्छा संपद्यते तद् निश्चयतः परमार्थतो ग्रन्थः। यत्र तु सा नोपजायते तदग्रन्थ इति । एतदेव व्यक्तीकरोति-'वत्थाई तेणेत्यादि' तेन तस्मात् । शुषं सुगममिति ॥ २५७३।२५७४ ॥ अथ परप्रश्नमाशझ्योत्तरमाह-- किं संजमोवयारं करेइ वत्थाई जइ मई सुणसु । सीयत्ताणं ताणं जलण-तणगयाण सत्ताणं ॥ २५७५ ॥ तह निसि चाउकालं सज्झाय-झाणसाहणमिसीणं । महि-महिया-वासो-सा-रयाइरक्खानिमित्तं च॥२५७६॥ मयसंवरुज्झणत्थं गिलाणपाणोवगारि वाभिमयं । मुहपुत्तियाइ चेवं परूवणिजं जहाजोगं ॥ २५७७ ॥ संसत्तसत्तु-गोरस-पाणयपाणीयपाणरक्खत्थं । परिगलण-पाणघायण-पच्छाकम्माइयाणं च ॥ २५७८ ॥ १ तस्मात् किमस्ति वस्तु अन्धोऽग्रन्थो वा सर्वथा लोके ? । अन्धोऽग्रन्थो वा मतो मूछा- मूच्छाभ्यां निश्चयतः ॥ २५७३ ।। वस्त्रादि तेन यद् यत् संयमसाधनमराग-द्वेषस्य । तत् तदपरिग्रह एव परिग्रहो यत् तदुपधाति ॥ २५७४ ॥ २ मूच्छा परिग्रह उक्त इत्युक्तं महर्षिणा। ३ किं संयमोपकारं करोति वस्त्रादि यदि मतिः शृणु । शीतत्राणं त्राण ज्वलन-तृणगतानां सचानाम् ॥ २५७५ ॥ तथा निशि चतुष्कालं स्वाध्याय-ध्यानसाधनमृषीणाम् । मही-महिका-वर्षों-न-रजआदिरक्षानिमित्तं च ॥ २५७६ ॥ मृतसंवरोजाना ग्लानमाणोपकारि चाभिमतम् । मुखवस्त्रिकादि चैवं प्ररूपणीयं यथायोगम् ।। २५७७ ।। संसक्तसक्तु-गोरस-पानक पानीयप्राणिरक्षार्धम् । परिगलन-प्राणघातन-पश्चारकर्मादिकानां च ॥ २५७८ ॥ १०२८॥ Jain Educationa.Inter For Personal and Price Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy