________________
COOOOL
वृहदतिः ।
जण कसायनिमित्तं जिणो वि गोसाल-संगमाईणं । धम्मो धम्मपरा वि य पडिणीयाणं जिणमयं च ॥२५६०॥ विशेषा
किं हि नामैतावति जगति तद् वस्तु, यद् यस्य वा तस्य वा कषायाणां बीजं कारणं न भवेत् । एवं च सति श्रुत-चारित्रभेदभिन्नो ॥१०२४॥ धर्मोऽपि त्वया न ग्रहीतव्यः, तस्यापि कस्यचित् कषायहेतुत्वात् । कुतः ? इत्याह-'जेणेत्यादि' येन यस्मादास्तां तत्मणीतो धर्मः, किन्तु स
त्रिभुवनवन्धुनिष्कारणवत्सलः सर्वसत्त्वानां जिनोऽपि भगवांस्तीर्थकरोऽपि क्लिष्टकर्मणां गोशालक संगमकादीनां कषायनिमित्तं संजातः । एवं धर्मस्तत्प्रणीतः, तदुक्तधर्मपरा अपि तदेकनिष्ठाः साधवः, जिनमतं च द्वादशाङ्गीरूपम् , सर्वमप्येतद् गुरुकर्मणां दुःखैकरूपदीर्घभत्रभ्रमणभाजां प्रत्यनीकानां जिनशासनप्रतिकूलवर्तिनां कषायनिमित्तमेव, इत्येतदप्यग्राह्यं प्रामोति, न चैतदस्ति । तस्मात् 'यत् कषायहेतुस्तत् परिहतव्यम्' इत्यनेकान्त एवेति ॥२५५९।।२५६०॥
अर्थतदोषपरिजिहीर्णोः परस्याभिप्रायमाशङ्कय परिहरनाह__अह ते न मोक्खसाहणमईए गंथो कसायहेऊ वि । वत्थाइ मोक्खसाहणमईए सुद्धं कहं गंथो ? ॥२५६१॥
अथ मन्येथाः- ते देहादयो जिनमतान्ताः पदार्थाः कषायहेतवोऽपि सन्तो न ग्रन्थो न परिग्रहः, मोक्षसाधनमत्या गृह्यमाणस्वादिति । हन्त ! यद्येवम् , तर्हि वस-पात्रादिकमप्युपकरणं शुद्धमेषणीयं मोक्षसाधनबुद्ध्या गृह्यमाणं कथं ग्रन्थः-न कथश्चिदित्यर्थः, न्यायस्य समानत्वादिति ॥ २५६१॥
तदेवं कषायहेतुत्वादग्राह्य वस्त्रादिकमित्येतद् निराकृतम् । अथ मूर्छा हेतुत्वेन तत् परिहरणीयमित्येतदपाकर्तुमाहमुँच्छाहेऊ गंथो जइ तो देहाइओ कहमगंथो । मुच्छावओ, कहं वा गंथो वत्थादसंगस्स ? ॥ २५६२ ॥ अह देहा-ऽऽहाराइसु न मोक्खसाहणमईए ते मुच्छा । का मोक्खसाहणेसुं मुच्छा वत्थाइएसुं तो ? ॥२५६३॥
accesscdaidoe
obo lolote
१यन कपायनिमित्तं जिनोऽपि गोशाल-संगमादीनाम् । धर्मों धर्मपरा अपि च प्रत्यनीकानां जिनमतं च ॥ २५६०॥ २ अथ ते न मोक्षसाधनमत्या ग्रन्थः कपायहेतवोऽपि । वस्खादि मोक्षसाधनमत्या शुद्धं कथं ग्रन्थः ॥ २५६१॥ ३ मूछ हेतुर्ग्रन्थो यदि ततो देहादिकः कथमग्रन्थः । मूर्छावतः, कथं वा ग्रन्थो वस्त्राद्यसङ्गस्य ? ॥ २५६२ ॥
अथ देहा-5ऽहारादिषु न मोक्षसाधनमत्या ते मूर्छा । का मोक्षसाधनेषु मूळ वस्त्रादिकेषु ततः ॥ २५६३ ॥
१०२४॥
हालवाला
Jan Education inte
For Personal and
Use Only