________________
स
विशेषा० ॥१०२३॥
S
दोसाजओ सुबहुया सुए य भणियमपरिग्गहत्तं ति। जमचेला य जिणिंदा तदभिहिओजं च जिणकप्पो॥२५५६॥ जं च जियाचेलपरिसहो मुणी जं च तीहिं ठाणेहिं । वत्थं धरिज नेगंतओ तओऽचेलया सेया ॥२५५७॥
सर्वा अप्युक्तार्था एव, नवरं 'जं च जिणाचेलेत्यादि' यस्माच 'जिताचेलपरिषहो मुनिः' इत्यागमेऽभिहितम् । जिताचेलपरिपहत्वं च किल त्यक्तवस्त्रस्यैव भवतीत्यभिप्रायः । यस्माच्च त्रिभिरेव स्थानैर्वस्वधरणमनुज्ञातमागमे नैकान्ततः, तथा चागमवचनम् - “तिहिं ठाणेहिं वत्थं धरिजा-हीरिवत्तियं, दुर्गच्छावत्तियं, परीसहवत्तियं" । तत्र हीलज्जा संयमो वा प्रत्ययो निमित्तं यस्य धारणस्य तत् तथा, जुगुप्सा लोकविहिता निन्दा सा प्रत्ययो यस्य तत्तथा, एवं परीषहाः शीतो-ष्ण-दंशमशकादयः प्रत्ययो यत्र तत्तथा । उपसंहरबाह- ततस्तस्मादुक्तयुक्तिभ्योऽचेलतैव श्रेयस्करीति पूर्वपक्षः ॥२५५३।।२५५४॥२५५५||२५५६।।२५५७||
अत्रोत्तरपक्षमभिधित्सुराह
गुरुणाऽभिहिओ जइ जं कसायहेऊ परिग्गहो सो ते। तो सो देहो च्चिय ते कसायउप्पत्तिहेउ त्ति ॥२५५८॥
गुरुणाऽऽर्यकृष्णेनाभिहितः शिवभूति:- यदि हन्त ! यद् यत् कपायहेतुः, तत् तत् ते तव परिग्रहः, स च मुमुक्षुणा परिहर्तव्य एवेत्येकान्तः । 'तो सो इत्यादि' ततस्तर्हि स्वकीयो देह एव ते तव स्वस्यात्मनोऽपि कपायोत्पत्तिहेतुरिति परिग्रहः परिहरणीयश्च मामोति । अतोऽपरिग्रहत्वस्य परिग्रहाणां चोत्सना कथेति ॥ २५५८ ।।
अथवा, किमेको देह एव, ननु व्याप्त्यापि ब्रूमः, तद्यथाअत्थि व किं किंचि जए जस्स व तस्स व कसायबीयं जं । वत्थु न होज एवं धम्मो वि तुमे न घेतव्वो ॥२५५९॥
दोषा यतः सुबहुकाः श्रुते च भणितमपरिग्रहत्वमिति । यदचेला जिनेन्द्रास्तदभिहितो यच्च जिनकल्पः ॥ २५५६ ॥
यच जिताचेलपरीषहो मुनिर्यच्च त्रिभिः स्थानैः । वस्त्रं धारयेद् नैकान्ततस्ततोऽचेलता श्रेयसी ॥ २५५७ ॥ २ त्रिभिः स्थानवखं धारयेत्-हीप्रत्ययम् , जुगुप्साप्रत्ययम्, परिषहप्रत्ययम् । ३ गुरुणाऽभिहितो यदि यत् कषायहेतुः परिग्रहः स ते । ततः स देह एव ते कषायोत्पत्तिहेतुरिति ॥ २५५८ ॥ ४ अस्ति वा किं किञ्चिजगति यस्य वा तस्य वा कपायबीजं यत् । वस्तु न भवेदेवं धर्मोऽपि स्वया न ग्रहीतव्यः ॥ २५५९ ।
॥१०२३।
Jan Education Internal
For Personal and Price Use Only
Sewalsww.jaineibrary.org