SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०२२॥ त्वमुक्तं तदपि धर्मोपकरणेष्वपि मुर्छा न कर्तव्या, मृ भाव एव निष्परिग्रहत्वमवसेयम् , न पुनः सर्वथा धर्मोपकरणस्यापि त्यागः । जिनेन्द्रा अपि न सर्वथैवाचेलकाः “सव्वे वि एगदूसेण निग्गया जिणवरा चउव्वीसं" इत्यादिवचनात् । तदेवं गुरुणा स्थविरैश्च वृहद्वात्तिः । यथोक्ताभिर्वक्ष्यमाणाभिश्च युक्तिभिः प्रज्ञाप्यमानोऽपि तथाविधकषायमोहादिकर्मोदयाद् न स्वाग्रहाद् निवृत्तोऽसौ, किन्तु चीवराणि परित्यज्य निर्गतः। ततश्च बहिरुद्याने व्यवस्थितस्यास्योत्तरा नाम भगिनी वन्दनार्थ गता। सा च त्यक्तचीवरं तं भ्रातरमालोक्य स्वयमपि चीवराणि त्यक्तवती । ततो भिक्षार्थ नगरमध्ये प्रविष्टा गणिकया दृष्टा । तत इत्थं विवस्त्रां बीभत्सामिमां दृष्टा 'मा लोकोऽस्मासु विरासीत्' इत्यनिच्छन्त्यपि तया वस्त्रं परिधापिताऽसौ । तत एष व्यतिकरोऽनया शिवभूतेनिवेदितः। ततोऽनेन 'विवस्त्रा योषिद् नितरां बीभत्सातिलज्जनीया च भवति' इति विचिन्त्य प्रोक्ताऽसौ- 'तिष्ठत्वित्थमपि, न त्यक्तव्यं त्वयैतद् वस्त्रम् । देवतया हि तवेदं मदत्तमिति' । ततः शिवभूतिना कौण्डिन्य-कोट्टवीरनामानौ द्वौ शिष्यौ दीक्षितौ । __गाथाक्षरार्थोऽपि किश्चिदुच्यते- 'कोटिन्नेत्यादि' कौण्डिन्यश्च कोट्टवीरश्चेति 'सर्वो द्वन्द्वो विभाषयकवद् भवति' इति वचनात् । कौण्डिन्य-कोट्टवीरम् , तस्मात् कौण्डिन्य-कोट्टवीरात् परम्परास्पर्शमाचार्य शिष्यसंबन्धलक्षणमधिकृत्योत्पन्ना संजाता 'बोटकदृष्टिः' इत्यध्याहारः । इत्येवं बोटिकाः समुत्पन्नाः ॥ २५५१ ॥ २५५२॥ अत्र भाष्यम्उवहिविभागं सोउं सिवभूई अजकण्हगुरुमूले । जिणकप्पियाइयाणं भणइ गुरुं कीस नेयाणि ? ॥२५५३॥ जिणकप्पोऽणुचरिजइनोच्छिन्नो त्ति भणिए पुणोभणइ। तदसत्तस्सोच्छिज्जउवुच्छिज्जइ किं समत्थस्स ? ॥२५५४॥ पुच्छस्स पुव्वमणापुच्छछिण्णकंबलकसायकलुसिओचेव।सो बेइ परिग्गहओ कसाय-मुच्छा-भयाईया॥२५५५॥ BeeGISTERBARSAROICER O १ सर्वेऽप्येकदृष्येण निर्गता जिनवराश्चतुर्विंशतिः । २ उपधिविभागं श्रुत्वा शिवभूतिरायकृष्णगुरुमूले। जिनकल्पिकादिकानां भणति गुरुं कस्माद् नेदानीम् ॥ २५५३ ॥ जिनकल्पोऽनुचर्यते नोच्छिन्न इति भणिते पुनर्भणति। तदशक्तस्योच्छिद्यतां व्युच्छिद्यते कथं समर्थस्य ? ॥ २५५४ ॥ पृष्टस्य पूर्वमनापृष्टच्छिनकम्बलकषायकलुषित एव । स ब्रवीति परिग्रहतः कषाय-मूळ-भयादिकाः ॥ २५५५ ॥ ॥१०२२॥ For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy