SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१०२२॥ खेलमल्लकाद् दीक्षां गृहीत्वा स्वयमेव लोचः कृतः। साधुभिलिङ्गं समर्पितम्। विहृताश्च सर्वेऽप्यन्यत्र । कालान्तरेण पुनरपि च तत्रागताः। ततो राज्ञा शिवभूतेबहुमूल्यं कम्बलरनं दत्तम् । तत आचार्यैः शिवभूतिरुक्तः- 'किमनेन तव साधूनां मार्गादिष्वनेकानर्थहेतुना गृहीतेन ?। ततस्तेन गुर्वप्रतिभासेनापि संगोप्य मूर्छया तद् विधृतम् । गोचरचर्याभिश्चागतः प्रत्यहं तदसा संभालयति, न तु क्वचिदपि व्यापारयति । ततः 'गुरुभिर्मच्छितोऽयमत्र' इति ज्ञात्वाज्यत्र दिने तमनापृच्छयैव वहिर्गतस्य परोक्षे तत् कम्बलरत्नं पाटयित्वा साधूनां पादपोञ्छनकानि कृतानि । ततो ज्ञातव्यतिकरः कषायितोऽसौ तिष्ठति । अन्यदा च मूरयो जिनकल्पिकान् वर्णयन्ति, तद्यथा जिणकप्पिया य दुविहा पाणिपाया पडिग्गधरा य । पाउरणमपाउरणा इकिका ते भवे दुविहा ॥१॥ दुग तिग चउक्क पणगं नव दस एकारसेव बारसगं । एए अट्ठ विगप्पा जिणकप्पे होति उबहिस्स ॥ २॥" इह केषाश्चिजिनकल्पानां रजोहरणं, मुखवस्त्रिका चेति द्विविध उपधिः, अन्येषां तु कल्पेन सह त्रिविधः, कल्पद्वयेन तु सह चतुर्विधः, कल्पत्रयेण सह पश्चविधः । केषाश्चित्तु मुखवत्रिका, रजोहरणं च, तथा पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पटलाई रयत्ताणं च गोच्छओ पायनिज्जोगो ॥१॥" इति सप्तविधः पात्रनियोग इति, एवं च नवविधः । कल्पेन तु सह दशविधः, कल्पद्वयेन सहकादशविधः, कल्पत्रयेण तु समं द्वादशविध उपधिः केषानिजिनकल्पिनामिति । तदेतत् श्रुत्वा शिवभूतिना प्रोक्तम्- 'यद्येवर, तर्हि किमिदानीमौधिक औपग्रहिकश्चैतावानुपधिः परिगृह्यते । स एव जिनकल्पः किं न क्रियते ?, । ततो गुरुभिरुक्तम्- 'जम्बूस्वामिनि व्यवच्छिन्नोऽसौ, संहननाद्यभावात् , सांप्रतं न शक्यत एव कर्तुम् । ततः शिवभूतिना प्रोक्तम्- 'मयि जीवति स किं व्यवच्छिद्यते ?, नन्वहमेव तं करोमि, परलोकार्थिना स एव निष्परिग्रहो जिनकल्पः कर्तव्यः, किं पुनरनेन कषाय-भय-मूर्छादिदोषविधिना परिग्रहानर्थेन ? । अत एव श्रुते निष्परिग्रहत्वमुक्तम् , अचेलकाश्च जिनेन्द्राः, अतोऽचेलतैव सुन्दरेति' । ततो गुरुणा प्रोक्तम्- 'हन्त ! यद्येवम् , तर्हि देहेऽपि कषाय-भय-मृच्छादयो दोषाः कस्यापि संभवन्ति, इति सोऽपि व्रतग्रहणानन्तरमेव त्यक्तव्यः प्रामोति । यच्च श्रुते निष्परिग्रह , जिनकल्पिकाश्च द्विविधाः पाणिपानाः प्रतिग्रहधराश्च । प्रावरणा-प्रावरणा एककास्ते भवेयुद्विविधाः ॥१॥ द्विकं त्रिकं चतुष्कं पञ्चकं नव दशैकादशैव द्वादशकम् । एतेऽष्ट विकल्पा जिनजल्पे भवन्त्युपधेः ॥ २॥ २ पात्र पात्रबन्धः पात्रस्थापनं च पात्रकेसरिता । पटलादि रजनाणं च गुच्छकः पायनियोगः ॥1॥ ॥१०२१॥ अHC Jan E inema For Personal and Use Only
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy