SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१.२०॥ Jain Educationa Internat गतः । इत्येकचत्वारिंशद्गाथार्थः || २५४६ ।। २५४७।२५४८।२५४९ ।। ॥ इति गोष्ठामा हिलनामा सप्तमो निह्नवः समाप्तः ॥ तदेवमुक्ता देशविसंवादिनः सप्त निह्नवाः । अथ सर्वविसंवादिनः 'बैहुरय पएस अव्वत्त समुच्छा दुग तिग अबद्धिया चेव' इत्यादिगाथायां चशब्दसंगृहीतानष्टमान् वोटिकनिह्नवानभिधित्सुराह— छैव्वाससयाइं नवुत्तराई तइआ सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पण्णा ॥२५५० ॥ सुबोधार्था ।। २५५० ।। अथ वोटिकोत्पत्तेरेव संग्रहगाथाद्वयमाह रहवीरपुरं नगरं दीवगमुज्जाणमज्जकण्हे य | सिवभूइस्सुवहिम्मि पुच्छा थेराण कहणा य || २५५१ ॥ बोडियस भूईओ वोडियलिंगस्स होइ उप्पत्ती । कोडिन्न- कोट्टवीरा परंपराफासमुप्पन्ना || २५५२ ॥ एतद्भावार्थः कथानकगम्यः, तच्चेदम्- रथवीरपुरं नाम नगरम् । तद्बहिश्च दीपकाभिधानमुद्यानम् । तत्र चार्यकृष्णनामानः सूरयः समागताः । तस्मिंश्च नगरे सहस्रमल्लः शिवभूतिर्नाम राजसेवकः समस्ति । स च राजप्रसादाद् विलासान् कुर्वन् नगरमध्ये पर्यटति । रात्रेव महरद्वयेऽतिक्रान्ते गृहमागच्छति । तत एतदीयभार्या तन्मातरं भणति - 'निर्वेदिताऽहं त्वत्पुत्रेण न खल्वेष रात्रौ वेलायां कदाचिदप्यागच्छति । तत उज्जागरकेण बुभुक्षया च बाध्यमाना प्रत्यहं तिष्ठामि । ततस्तया प्रोक्तम्- 'वत्से ! यद्येवं, तर्हि त्वमय स्वपिहि, स्वयमेवाहं जागरिष्यामि' । ततः कृतं वध्वा तथैव इतरस्यास्तु जाग्रत्या रात्रिमहरद्वयेऽतिक्रान्ते समागत्य शिवभूतिना प्रोक्तम्‘द्वारमुद्घाटयत’ । ततः प्रकुपितया मात्रा प्रोक्तम्- 'दुर्नयविधे ! यत्रैतस्यां वेलायां द्वाराण्युद्धाटितानि भवन्ति तत्र गच्छ, न पुनरेवं तव पृष्ठलग्नः कोऽप्यत्र मरिष्यति' । ततः कोपा-ऽहङ्काराभ्यां प्रेर्यमाणोऽसौ निर्गतः । पर्यटता चोद्घाटितद्वारः साधूपाश्रयो दृष्टः । तत्र च साधवः कालग्रहणं कुर्वन्ति । तेषां च पार्श्वे तेन वन्दित्वा व्रतं याचितम् । तैश्व 'राजवल्लभः, मात्रादिभिरमुत्कलितश्च' इति न दत्तम् । ततः १ गाथा २३०० | २ पड् वर्ष शतानि नवोत्तराणि तदा सिद्धिं गतस्य वीरस्य । ततो बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ॥। २५५० ॥ ३ ज. 'व गा' । ४ रथवीरपुरं नगरं दीपक मुद्यान मार्य कृष्णश्च । शिवभूतेरुपधी पृच्छा स्थविराणां कथना च ।। २५५१ ॥ बोटिक शिवभूतेबोंटिकलिङ्गस्य भवत्युत्पत्तिः । कौण्डिन्य-कोष्टवीरत् परम्परास्पर्शमुत्पन्ना || २५५२ ॥ T For Personal and Private Use Only बृहद्वृत्तिः । ॥१.२०॥ www.jainelibrary.org
SR No.600167
Book TitleVisheshavashyak Bhashya Part 06
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy