Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 19
________________ न धूपमुद्ग्राहयति, दृशा तीर्थकरप्रतिमादिवदनं वीक्षते, मुखेन वृत्तं पठति, इत्यादिबहीनामपि क्रियाणां युगपत्मवृत्तिरध्यक्षतोऽपि विशेषा०वीक्ष्यते ॥ इति गाथानवकार्थः ॥ ३७३ ॥ बृहदत्तिः । 'गृह्णाति कायिकेन' इत्युक्तम् , तत्र यद्यप्यौदारिकादिशरीरपञ्चकभेदात् कायः पञ्चविधः, तथापि त्रिविधेनैव कायेन वाग्द्रव्य॥२१७॥ ग्रहणमवसेयम् , इति दर्शयन्नाह 'तिविहम्मि सरीरम्मि जीवपेएसा हवंति जीवस्स । जेहि उगेण्हइ गहणं तो भासइ भासओ भासं ॥३७४॥ भौदारिकादिशरीराणां मध्यात् त्रिविधे त्रिप्रकारे शरीरे जीवस्याऽऽत्मनः प्रदेशा जीवप्रदेशा भवन्ति, नान्यत्र । एतावति चोच्यमाने To 'भिक्षोः पात्रम्' इत्यादौ षष्ठया भेदेऽपि दर्शनाद् मा भूजीवात् प्रदेशानां भेदसंप्रत्यय इत्यत आह- जीवस्येति, त्रिविधेऽपि शरीरे जीवप्रदेशा जीवस्याऽऽत्मभूता भवन्ति, न तु भेदिन इत्यर्थः । तदनेन निष्पदेशात्मवादनिराकरणमाह, निष्पदेशत्वस्य युक्त्यनुपपत्तेः तथाहि- पादतलसंबद्धानां जीवप्रदेशानां शिरःसंबद्धजीवेंदेशैः सह भेदः, अभेदो वा ? इति वक्तव्यम् । यदि भेदः, तर्हि कथं न सप्रदेशो जीवः । अथाभेदः, तर्हि सर्वेषामपि शरीरावयवानामेकत्वप्रसङ्गः, अभिन्नै वैप्रदेशैः संबन्धेनैकत्र कोडीकृतत्वात् , इत्यादि तर्कशास्त्रेभ्योऽनुसरणीयम् । यैर्जीवप्रदेशैः किं करोति ?, इत्याह- यैस्तु गृह्णाति । तुशब्दो विशेषणार्थः । किं विशिनष्टि - न सर्वदैव गृह्णाति, किन्तु भाषणाभिप्रायादिसामग्रीपरिणामे सति । किं पुनर्गृह्णाति ?, इत्याह- गृह्यत इति कर्मणि ल्युट्प्रत्यये ग्रहणं वाग्द्रव्यनिकुरम्बमित्यर्थः । ततो भाषको भाषां भाषते, न त्वभाषकोऽपर्याप्तावस्थायां, इच्छाद्यभावतो वेति । 'भाषको भाषते' इत्यनेनैव | गतार्थत्वात् 'भाष्यमाणैव भाषा, न पूर्व, नापि पश्चात् ' इति ज्ञापनार्थमेव भाषाग्रहणमिति ॥ ३७४॥ ___ आह- ननु कतमत् तत् त्रिविधं शरीरं, यद्गतैर्जीवप्रदेशैर्वाग्द्रव्याणि गृहीत्वा भाषको भाषते ?, इत्याह ओरालिय-वेउब्विय-आहारओ गेण्हई मुयइ भासं । सच्चं सच्चामोसं मोसं च असच्चमोसं च ॥ ३७५ ॥ इहौदारिकशब्देन शरीर-तद्वतोरभेदोपचारात् , मत्वर्थीयलोपाद् वौदारिकशरीरवान् जीव एव गृह्यते; एवं वैक्रियवान् वैक्रियः, आहारकवानाहारकः । तदयमेवौदारिक-चैक्रिया-ऽऽहारकशरीरी जीवो गृह्णाति, मुञ्चति च भाषां पुद्गलसंहतिरूपाम् भाषां कथंभूताम् !, इत्याह- सत्या, सत्यामृपा, मृषां च, असत्यमृषां च ॥ इति नियुक्तिगाथाद्वयार्थः ॥ ३७५ ।। त्रिविधे शरीरे जीवप्रदेशा भवन्ति जीवस्य । यैस्तु गृहाति ग्रहणं ततो भाषते भाषको भाषाम् ॥ ३७४ ॥ २ घ. छ, 'पदेसा'। ३ क. ग. 'वदे। MAR१७॥ औदारिक-वैक्रिया-हारको गृहाति मुञ्चति भाषाम् । सस्यां सत्यमृषां मृषां चाऽसत्यमषां च ॥ ३७५॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 202