Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥२१६|
द्विसमयमानत्वात् ; ग्रहणमा तु केवलं 'भाष्यत इति भाषा' इति व्युत्पत्त्यर्थस्यैवाऽघटनाद् भाषा न भवत्येवेति । यदि चेह भाषा | पृथग् न गृहीता स्यात् , तदोभयस्याऽपि कश्चिद् भाषात्वं प्रतिपयेत, ग्रहणेऽपि योग्यतया भाषात्वसद्भावात् , ततश्च " भासिज्जमाणा भासा" इत्योगमविरोध: स्यात् । तर्हि मोक्षग्रहणमपनीय तत्स्थाने भाषैव चोपादीयताम् , भाषा-मोक्षयोरेकार्थत्वादिति चेत् । सत्यम् , किन्तु 'निसर्गस्य कालमानं नोक्तम्' इति मन्दधीः प्रतिपद्येत, इति तदनुग्रहार्थमिह मोक्ष-भाषयोः पृथग् ग्रहणम् । इत्यलं विस्तरेण इति/ ग्रहणं, मोक्षो, भाषा, इत्येतानि त्रीणि, तथा ग्रहण निसर्गोभयं च सर्वाण्यप्युत्कृष्टतः प्रत्येकमन्तर्मुहूर्तमात्रं कालं भवन्ति, परतो योगान्तरमुपगच्छति, म्रियते वेति भावः । एतेषां च ग्रहणादीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवति, इति महाप्रयत्नस्य तदेवाऽन्तर्मुहूर्त लघु भवति, अल्पप्रयत्नस्य तु तदेव बृहत्प्रमाणं भवतीति ॥ ३७१ ।। ३७२ ॥
तदत्र प्रथमसमये यत् केवलं ग्रहणमेव, पर्यन्तवर्तिनि तु समये यः केवलो निसर्गः पूर्वमुक्तः, स भवतुः मध्यमसमयेषु तु यौ ग्रहण-निसगौं, तयोरयुक्तत्वमुत्पश्यन्नाह परःगैहण-विसग्गपयत्ता परोप्परविरोहिणो कहं समए ? । समए दो उवओगा न होज्ज, किरियाण को दोसो ?॥३७३॥
निरन्तरग्रहणे, विसर्गे चेष्यमाणे द्वितीयसमयादारभ्योपान्तसमयं यावद् ग्रहण-विसर्गप्रयत्नौ प्रतिसमयं युगपदापततः। एतौ च परस्परविरोधिनौ कथमेकस्मिन् समये युक्तौ ? नैव युक्तावित्यर्थः । अत्रोच्यते- ग्रहण-विसर्गयोर्विरोध एवात्र तावदसिद्धः । यदि हि | येषामेव द्रव्याणां ग्रहणं, तेषामेव तस्मिन्नेव ग्रहणसमये निसर्ग इष्येत, तदा स्यादसौ, एतच्च नास्ति, प्राक्समयगृहीतानामेवाऽग्रेतनसमये निसर्गात् , तत्र चाऽपूर्वाणामेव ग्रहणात् । अथाऽविरोध्यपि युगपदेकत्र समये उपयोगद्वयवत् क्रियाद्वयं नेष्यते, तदाह- 'समये दो इत्यादि' एकस्मिन् समये द्वावुपयोगी न भवेतामिति युक्तम् , "जुगवं दो नत्थि उवओगा" इति वचनात् तयोरागमे निषेधात् । क्रियाणां बढीनामप्येकस्मिन् समये को दोषः ? न कश्चिदित्यर्थः, तथाहि- आगमे "भंगियसुयं गणतो वट्टइ तिविहे वि ज्झाणम्मि" इत्यादिवचनाद् वाङ्-मन:-कायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैव । तथा, अङ्गल्यादिसंयोग-विभागक्रिययोः, संघातपरिसाटक्रिययोः, उत्पाद-व्ययक्रिययोश्चैकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञा विहितैव, इति को दोषः ? । तथा, वामहस्तेन घण्टिका चलयति, दक्षि
. भाष्यमाणा भाषा। २ श्रीभगवतीसूत्रम् । ३ ग्रहण-विसर्गप्रयत्नी परस्परविरोधिनी कथं समये । समये द्वावुपयोगौ न भवेता, क्रियाणां को दोषः ॥ ३७३ ॥
1 ॥२१६॥ ४ युगपद् द्वौ न त उपयोगी । ५ भङ्गिकश्रुतं गणयन् वर्तते त्रिविधेऽपि ध्याने ।
JainEducationa.Intemat
For Personal and Private Use Only
www.jaineltrary.ary
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 202