SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥२१६| द्विसमयमानत्वात् ; ग्रहणमा तु केवलं 'भाष्यत इति भाषा' इति व्युत्पत्त्यर्थस्यैवाऽघटनाद् भाषा न भवत्येवेति । यदि चेह भाषा | पृथग् न गृहीता स्यात् , तदोभयस्याऽपि कश्चिद् भाषात्वं प्रतिपयेत, ग्रहणेऽपि योग्यतया भाषात्वसद्भावात् , ततश्च " भासिज्जमाणा भासा" इत्योगमविरोध: स्यात् । तर्हि मोक्षग्रहणमपनीय तत्स्थाने भाषैव चोपादीयताम् , भाषा-मोक्षयोरेकार्थत्वादिति चेत् । सत्यम् , किन्तु 'निसर्गस्य कालमानं नोक्तम्' इति मन्दधीः प्रतिपद्येत, इति तदनुग्रहार्थमिह मोक्ष-भाषयोः पृथग् ग्रहणम् । इत्यलं विस्तरेण इति/ ग्रहणं, मोक्षो, भाषा, इत्येतानि त्रीणि, तथा ग्रहण निसर्गोभयं च सर्वाण्यप्युत्कृष्टतः प्रत्येकमन्तर्मुहूर्तमात्रं कालं भवन्ति, परतो योगान्तरमुपगच्छति, म्रियते वेति भावः । एतेषां च ग्रहणादीनामन्तर्मुहूर्तस्य प्रयत्नभेदेन भेदो भवति, इति महाप्रयत्नस्य तदेवाऽन्तर्मुहूर्त लघु भवति, अल्पप्रयत्नस्य तु तदेव बृहत्प्रमाणं भवतीति ॥ ३७१ ।। ३७२ ॥ तदत्र प्रथमसमये यत् केवलं ग्रहणमेव, पर्यन्तवर्तिनि तु समये यः केवलो निसर्गः पूर्वमुक्तः, स भवतुः मध्यमसमयेषु तु यौ ग्रहण-निसगौं, तयोरयुक्तत्वमुत्पश्यन्नाह परःगैहण-विसग्गपयत्ता परोप्परविरोहिणो कहं समए ? । समए दो उवओगा न होज्ज, किरियाण को दोसो ?॥३७३॥ निरन्तरग्रहणे, विसर्गे चेष्यमाणे द्वितीयसमयादारभ्योपान्तसमयं यावद् ग्रहण-विसर्गप्रयत्नौ प्रतिसमयं युगपदापततः। एतौ च परस्परविरोधिनौ कथमेकस्मिन् समये युक्तौ ? नैव युक्तावित्यर्थः । अत्रोच्यते- ग्रहण-विसर्गयोर्विरोध एवात्र तावदसिद्धः । यदि हि | येषामेव द्रव्याणां ग्रहणं, तेषामेव तस्मिन्नेव ग्रहणसमये निसर्ग इष्येत, तदा स्यादसौ, एतच्च नास्ति, प्राक्समयगृहीतानामेवाऽग्रेतनसमये निसर्गात् , तत्र चाऽपूर्वाणामेव ग्रहणात् । अथाऽविरोध्यपि युगपदेकत्र समये उपयोगद्वयवत् क्रियाद्वयं नेष्यते, तदाह- 'समये दो इत्यादि' एकस्मिन् समये द्वावुपयोगी न भवेतामिति युक्तम् , "जुगवं दो नत्थि उवओगा" इति वचनात् तयोरागमे निषेधात् । क्रियाणां बढीनामप्येकस्मिन् समये को दोषः ? न कश्चिदित्यर्थः, तथाहि- आगमे "भंगियसुयं गणतो वट्टइ तिविहे वि ज्झाणम्मि" इत्यादिवचनाद् वाङ्-मन:-कायक्रियाणामेकत्र समये प्रवृत्तिरभ्युपगतैव । तथा, अङ्गल्यादिसंयोग-विभागक्रिययोः, संघातपरिसाटक्रिययोः, उत्पाद-व्ययक्रिययोश्चैकत्र समयेऽनेकस्थानेषु तत्राऽनुज्ञा विहितैव, इति को दोषः ? । तथा, वामहस्तेन घण्टिका चलयति, दक्षि . भाष्यमाणा भाषा। २ श्रीभगवतीसूत्रम् । ३ ग्रहण-विसर्गप्रयत्नी परस्परविरोधिनी कथं समये । समये द्वावुपयोगौ न भवेता, क्रियाणां को दोषः ॥ ३७३ ॥ 1 ॥२१६॥ ४ युगपद् द्वौ न त उपयोगी । ५ भङ्गिकश्रुतं गणयन् वर्तते त्रिविधेऽपि ध्याने । JainEducationa.Intemat For Personal and Private Use Only www.jaineltrary.ary
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy