Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीका-टिप्पलसाहितः सिम्वतीति सिद्धं नः समीहितम् । अन्यथा तदाकारता न समस्ति, गस्वन्तराभावात् । तब तदुत्पत्सितदाकारते प्रामग्राहकभावहेतू संस्तः । संस्तां वा, तथापि विकल्पतः पर्यनुयोज्यो भवान् । किमेते ग्रहणकारणं पार्थक्येन उत सामस्त्येन । तद् यद्यायः पक्षः, कपालक्षणो घटान्त्यक्षणस्य ग्राहकः प्रामोति तजन्यत्वात् , जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः स्यात् तदाकारस्वात् । अथ द्वितीयः, तथा सति घटोत्तरक्षणः पूर्वक्षणस्य ग्राहकः प्रसजति, तदुत्पत्तस्तदाकारत्वाच । जडत्वादर्थस्य न ग्राहकत्वमपि तु ज्ञानस्य तदुत्पत्तितदाकारतयोः सत्योरिति चेत्, इदमिदानीं विदितमस्माभिः, एतदपि समानार्थग्राहिप्राचीनसंवेदनक्षणलक्षणमनस्कारोत्पाद्यज्ञाने ग्राहक लक्षणं व्यभिचरति, उत्पादकप्राक्तनक्षणवर्तिमनस्काराग्राहकत्वात् । तदध्यवसायसाहित्येन तदुत्पत्तितदाकारतयोग्रहणकारणत्वं संपूर्ण मनस्कारे तनास्तीति चेत् , किमिदं भिन्नगोचरेण सह साहित्यम् । तथा हि-अध्यवसायो वासनाप्रबोधवशादुत्पन्नः सामान्यमनर्थरूपं विकल्पयति । प्रत्यक्षं बहिरालब्ध्वात्मलाभं तदाकारं तमेव साक्षाकरोति - इति भवतां दर्शनम् , तन्न विकल्पसाहित्यं प्रत्यक्षस्य कंचन विशेष पुष्णाति । तदिदं ग्राह्यग्राहकभावकारणं प्रत्यक्षेऽपि यद् भवद्भिरभ्यधायि, तद् यथा यथा विचार्यते तथा तथा विशीर्यत इत्यनपेक्षणीयम् । तद् यथाकथंचित् प्रत्यक्षस्य प्रतिपादितग्राह्यग्राहक भावलक्षणवैकल्येऽपि ग्राहकत्वम् अर्थस्य ग्राह्यत्वम् , तथा दृष्टस्वात् , अन्यथा निखिलव्यवहारोच्छेदप्रसङ्गात् भवद्भिरपि प्रत्यपादि । तथा शब्दस्य वाचकत्वमर्थस्य वाच्यत्वं प्रतिपद्यध्वं यूयम् , अत्रापि दृष्टहानेः व्यवहारोच्छेदस्य समानत्वात् । अथ इत्थमाचक्षीथाः, यथा – नद्यास्तीरे गुडशकटं पर्यस्तं, धावत धावत डिम्भकाः - इत्यादिविप्रतारकपुरुषवचनश्रवणात् प्रवर्तमाना विप्रलम्भताभाजो जायन्ते, अतः सकलवचनेष्वनाश्वास इति । एवं तर्हि चिकिचिकायमानमरुमरीचिकाचक्रचम्बि यजलोल्लेखि विशददर्शनमुदयपदवीं समासादयति तदलीकमवलोकिसमिति, सकलाध्यक्षेवनाश्वास. इत्यभिदध्महे । पाश्चात्यविपरीतार्थोपस्थापकप्रमाणबाधितत्वाद् मरीचिकासु जलज्ञानमप्रमाणं न शेषसत्यस्तम्भादिज्ञानानि, बाधारहि. तत्वादिति चेत् ; तर्हि ध्वनावप्ययं न्यायः किं काकैर्भक्षितः। न हि वयं सर्वशन्दानां प्रामाण्यं प्रतिपद्येमहि, किं तर्हि सुनिश्चिताप्तप्रणेतृकाणामेव । तन्न प्रामाण्यं प्रति प्रत्यक्षशब्दयोर्विशेषमुपलभामहे । एष तु विशेषः स्यात् , प्रत्यक्षं चक्षुरादिसामग्री. विशेषजन्यत्वात् संनिहितनियतार्थप्राहि स्पष्टप्रतिभासम् , शाब्दं तु तथाविधकारणीवकलत्वाद् नियतानियतार्थग्राहि अस्पष्टप्रतिभासम् । न च एष विशेषः प्रामाण्य
जलचन्द्रो वेति। यद्यपि कथंचिन्नभश्रन्द्रेणाम्भश्चन्द्रस्य जन्यमानत्वात्तदुत्पत्तिरप्यत्र विद्यते, तथापि तदाकारतैव प्राधान्येन विवक्षिता। तदध्यवसायेति। तस्योत्पादकस्याध्यवसायो विकल्पनम् । चिकिचिकायमानेति । चिकिचिकाशब्दो देदीप्यमानार्थःः स चानुकरणे पटपटा
For Private And Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 110