Book Title: Nyayavatara Author(s): P L Vaidya Publisher: Jain Shwetambar Conference Mumbai View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यायावतार: अथ ब्रूयात्-यद्यपि विकल्पाः सामान्यं गोचरयन्ति तस्वतः, तथापि प्रत्यक्षविकल्पयोयौंगपयेन प्रवृत्तेर्विमूढः प्रतिपत्ता विकल्पस्यापि स्वलक्षणनिष्ठतां व्यवस्यति। तथा चोक्तम् मनसोर्युगपत्तेः सविकल्पाविकल्पयोः । विमूढो लधुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥१॥ इति । तत् किमिदं शपथैः प्रत्येयं यदुत मोहाद् विकल्पेन स्वलक्षणमध्यवस्यति न पुनर्विशदनि सेन साक्षात्करोति। एवं चाध्यक्षमपि सकलार्थव्यक्ती!चरयति, विकल्पमोहात्तु संनिहितविषयं लक्ष्यते इति परोऽनुषञ्जयन् दुर्निवारः स्यात् । उत सग्रहणमध्यवसायः, तदा स्वलक्षणनिष्ठता विकल्पस्य स्ववाचा भवद्भिः प्रतिपना स्यात् । एवं च विकल्पयुगलकेऽप्यर्थक्रियासमर्थार्थपर्यवसितसत्ताकता विकल्पस्याढौकते। यदा च विकल्पः स्वलक्षणसौधमध्यमध्यास्त इति अभि. दध्याः, तथा सति वनेरपि तदन्तःप्रवेशो दुर्निवारः स्यात् , तत्सहचरत्वात् । पदाह भवदाचार्य:- स एव शब्दानां विषयो यो विकल्पानामिति । न च विकल्पं व्यतिरिच्य सादृश्यव्यवस्थापकमन्यदस्ति, प्रत्यक्षस्य सकलजगद्विलक्षणस्व. लक्षणग्रहणप्रवणत्वात् । तद् यदि तत्सदृशतयोत्पत्तिस्तदाकारता, तदा प्रतिपादित. न्यायाद् विकल्पस्य संनिहितार्थगोचरतोररीकर्तव्या, तथा च ध्वनिरपि तद्विषयः बुद्धिप्रतिभासविषयाः शब्दा बुद्धयश्च प्रोक्ता आचार्यदिग्नागेन । किंभूता बुद्धयः ? सामान्यगोचराः सविकल्पिकाः न सर्वाः, निर्विकल्पाध्यक्षबुद्धीनां वस्तुविषयाभ्युपगमात् । बुद्धीनामेवैतद् विशेषण न शब्दानाम् , तेषां सामान्यषियत्वाव्यभिचारात् ; किं कारणं, वस्तुन्येषां शब्दानां विकल्पानां चासंभवादिति । एतदर्थव विस्तरार्थिना प्रमाणवार्तिके कल्याणचन्द्रकृतटीकातोऽवसेयः। मनसोरिस्यादि । मन्यते ज्ञायते वस्तु आभ्यामिति सर्वधातुभ्योऽसुन् (पा. उणादि ) इति असनि मनसी लाने तयोः सविकल्पाविकल्पयोरेकत्वं विकल्पयति भ्रान्तः प्रमातेति संबन्धः । कुत इत्याह, युगपद्वृत्तेः गवादिस्वलक्षणविषयनिर्विकल्पाध्यक्षानन्तरं पुनर्निर्विकल्पकेन स्वलक्षणस्य तत्समकालमेव विकल्पेन गकारादिवर्णानां च ग्रहणात् । यद बौद्धालङ्कारः-कथं तर्हि क्रमेण ग्रहणं न भवति, युगपद्विषयसंनिधानात्, न हि वर्णविकल्पकाले प्रत्यक्षप्रत्ययार्थो न संनिहित इति । लघुवृत्तेर्वेति । यथा भवतो लघुवृत्तेः शाखाचन्द्रादिविषयसंनिधौ न क्रमेण ग्रहणाध्यवसायस्तथा ममापि निर्विकल्पकसमनन्तरं शगित्येव विकल्पोत्पादात् तयोरैक्यव्यवसायः, न पुनस्तत्त्वतस्तयोरक्यम् । विशेषतस्त्वेतत्कारिकाओं बौद्धालंकारादेरवसेयः॥ तदन्त इति । तस्य स्वलक्षणस्यान्तर्मध्यं तत्र प्रवेशस्तद्विषयतेति यावत् । For Private And Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 110