________________
कातन्त्रव्याकरणम् ह्रस्व-दीर्घ-प्लुतसंज्ञक 'अ-इ-उ' ये तीन वर्ण ही अभिप्रेत हैं । ऋक्तन्त्र (१।२) तथा नाट्यशास्त्र (१४।२०) में उन्हीं १० वर्णों की समानसंज्ञा निर्दिष्ट है, जिनकी कलापव्याकरण में व्याख्यात है । समान परिमाण का तात्पर्य है- उदात्त-अनुदात्तसमाहार (स्वरित)- सानुनासिक - निरनुनासिक भेदों से जो वर्ण ६ प्रकार के मान्य हैं । कलापव्याकरण के वर्णसमाम्नाय में 'अ आ, इ ई, उ ऊ, ऋ ऋ , लू तथा ल ये १० वर्ण ऐसे हैं, जिनमें से प्रत्येक के ६-६ भेद ही होते हैं | पाणिनीय व्याकरण में इन वर्गों के बोधार्थ ‘अक्' प्रत्याहार का व्यवहार होता है, जो सर्वथा कृत्रिम है ।।३।
४. तेषां द्वौ द्वावन्योऽन्यस्य सवर्णी (१।१।४) [सूत्रार्थ]
समानसंज्ञक १० वर्गों में से प्रति दो-दो वर्गों की परस्पर सवर्णसंज्ञा होती है ।।४।
[दु० वृ०]
तेषामेव दशानां यौ द्वौ द्वौ वर्णौ तावन्योऽन्यस्य सवर्णसंज्ञकौ भवतः । अ आ, इ ई, उ ऊ, ऋ ऋ , लू लू । तेषां ग्रहणं व्यक्त्यर्थम् । तेन ह्रस्वयोर्द्वयोर्दीर्घयोश्च सवर्णसंज्ञा सिद्धेति । सवर्णप्रदेशा:- “समानः सवर्णे दीर्घाभवति परश्च लोपम्" (१।२।१) इत्येवमादयः ।।४।
[दु० टी०]
तेषामिति निर्धारणे षष्ठी प्रतिपत्तव्या, निर्धारणं पुनरत्र द्वित्वगुणेनैव संभवति । यौ द्वाविति वीप्सायां द्विवचनं लोकतः सिद्धम्, नानाभिधायकानामभिधेयस्य क्रियागुणद्रव्यैर्युगपत् प्रयोक्तुाप्तुम् इच्छा वीप्सा उच्यते । सा पुनरिह सवर्णगुणेनैव सम्भवति । अन्योऽन्यस्येत्यन्यशब्दस्य क्रियाविनिमये द्विर्वचनं सश्चान्तः पूर्वस्यैकस्य पुंवद्भावश्च यथासम्भवं लोकत एव सिद्धः, यथा परस्परम् । योऽपि हि लक्षणं नावगच्छति सोऽपि शब्दोच्चारणात् क्रियाविनिमयं प्रतिपद्यते । समानो वर्णः सवर्णः, स पुनरस्मादेव वचनाद् भिन्नजात्योरपि ह्रस्वदीर्घयोरुपपद्यते । समानजात्योस्तु ह्रस्वयोर्द्वयोर्दीर्घयोश्च सावर्षं सिद्धमेव ।
कथमेकस्य पुनरनेकत्वं चेद् आदिमध्यान्तोदात्तादिभेदकृता व्यक्तिरस्तीति । यथा बाल्यादिभेदेनैकस्य देवदत्तस्यानेकत्वं सिद्धम् । नहि व्यक्तिमन्तरेण जातिरुपपद्यते, येन