________________
२४९
सन्धिप्रकरणे पनमो विसर्जनीयपादः [रूपसिद्धि]
१. कष्टीकते । कः + टीकते | टकार के परवर्ती होने पर पूर्ववर्ती विसर्ग के स्थान में प्रकृत सूत्र- द्वारा षकारादेश ।
२. कष्ठकारेण । कः + ठकारेण | ठकार के पर में रहने पर पूर्ववर्ती विसर्ग को प्रकृत सूत्र- द्वारा षकारादेश ।। ६३ ।
६४. ते थे वा सम् (१।५।३) [सूत्रार्थ]
त् एवं थ् वर्गों के पर में रहने पर विसर्ग के स्थान में सकारादेश होता है ।। ६४ ।
[दु०वृ०]
विसर्जनीयस्ते वा थे वा परे समापद्यते । कस्तरति, कस्थुडति । कारस्करादय इति संज्ञाशब्दा इव लोकतः सिद्धाः ।। ६४ ।
[दु०टी०]
ते थे० । कारस्करादयः संज्ञाशब्दा लोकतः सिद्धा इति न कारं करोतीति कारस्करो वृक्ष उच्यते, अन्वर्थाभावात् । नापकरोतीति अपस्करः । एवं न पारं करोतीति पारस्करो देशः । न तत् करोतीति तस्करश्चौरः । न रथं पातीति रथस्पा नदी । न मा क्रियतेऽनेनेति मस्करो वेणुर्दण्डश्च, न मा कर्तुं शीलमस्येति मस्करी परिव्राजकः, माकृतकर्माण्युपशास्ति वैश्रेयसीति । न ईषत् तीरमस्येति, अजस्येव तुन्दमस्येति कास्तीरम् अजस्तुन्दं च नगरम्, न बृहंश्चासौ पतिश्चेति ( न बृहतां पतिरिति) बृहस्पतिर्देवता, न प्रगतं कण्वमस्येति प्रस्कण्वो नाम ऋषिः । न हरेरिव चन्द्रो (रमणीयो हरेरिव चन्द्रो दीप्तिरस्येति वा) यस्येति हरिश्चन्द्रो नाम राजर्षिः । प्रायश्चित्तिः, प्रायचित्तिः । प्रायश्त्तिम्, प्रायचित्तम् । प्रायप्रायसोश्चित्तौ चित्ते च रूपद्वयमिदम् । आस्' -- शब्दस्याव्ययस्य चर्ये आश्चर्यमिति प्रतीतिविरुद्ध वर्तते तथा पदे प्रतिष्ठायां वर्तते । क्वचिद् अव्ययविसृष्टस्यापि सकारः - आस्पदं प्रतिष्ठा । प्राणधारणाय यत् स्थानं कुस्तुम्बुरु च धन्याकमुच्यते, न कुत्सितं तुम्बुरु इत्यन्वर्थता । अपरस्परशब्दः क्रियासातत्ये वर्तते, न त्वपरे च परे चेति द्वन्द्वः । अपरस्पराश्छात्रा गच्छन्ति, सततं गच्छन्तीत्यर्थः । न विकिरतीति विकिरो विस्किरो वा शकुनिरुच्यते ।