Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 385
________________ २९८ कातन्त्रव्याकरणम् २९८ २७. ऋत्यनित्यसमासेऽनुपसर्गसमानस्य ह्रस्वश्च उपसर्गादन्यस्य यः समानस्तस्य ऋकारे परे नित्यसमासादन्यत्र वाक्ये विकल्पसमासे च यथासम्भवं ह्रस्वः प्रकृतिश्च भवति वा । दाम ऋच्छति, दामर्छति । माला ऋच्छति, माल ऋच्छति, मालर्छति । ग्राम ऋषभः, ग्रामर्षभः । शाला ऋक्षः, शाल ऋक्षः, शालक्षः | उच्चरितरुचिरऋचाञ्चाननाञ्चतुर्णाम् । हिमऋतावपि ताः स्म भृशस्विद इति च । महाऋषिः, महऋषिः, महर्षिः |.स्तृ ऋच्छौ, स्तृऋच्छौ स्तृच्छौं । गम्ल ऋच्छौ, गम्लुच्छौ । इह ऋकारोऽपि दीर्घ इति तन्त्रान्तरम्, तदा गम्लृच्छौ । टुकारेऽपि स्मरन्त्येके- कन्यालृकारः, कन्यल्कारः, कन्यलृकारः । नित्यसमासे निषेधः किम् ? अश्वी , बडवी । अनुपसर्गस्येति किम् ? प्रार्च्छति, परार्छति । समानस्येति किम् ? गवृणम्, नावृणम् । पदान्तस्येव पितॄन् । अवार्थं सवर्णार्थं च वचनम् ।। २७।। २८. तौ नामिनोऽसवणे अनुपसर्गसमानस्य नामिनोऽसवणे स्वरे परतो नित्यसमासादन्यत्र प्रकृतिर्दीर्घस्य हस्वश्च वा भवति । दधि अत्र, दध्यत्र । मधु अत्र, मध्वत्र । नदी अत्र, नदि अत्र, नद्यत्र । नामिनः इति किम् ? ममेष्टिः, कन्येहते । समानस्येति किम् ? श्रिया इन्दुः, पाणावाद्यम् । पदान्तस्येत्येव । नद्यौ, वध्वौ । असवर्ण इति किम् ? वारीहसे, मधूर्ध्वम् । कथं वारि ईहसे, मधु ऊर्ध्वम् ? सन्धिर्हि संहिता । स तु पदयोर्विभाषित एव । संहिताश्रयत्वाच्च सन्धयोऽभिधीयन्ते समानदीर्घादयः । अतस्ते संहितायामेव स्युः । सप्तम्या निर्दिष्टे वर्णाव्यवाये विधिराश्रीयते, न तु कालाव्यवाये । तथा च असंहितायामपि सप्तम्या निर्दिष्टे विध्यन्तराणि स्युः । प्रकरणमिदं तु संहितायामेव विसन्ध्यर्थम् । ___ नित्यसमासे निषेधः किम् ? साध्वृच्छी, कुट्यर्थः, जान्वर्थः । नित्यग्रहणाद् नदि अम्भः, नदी अम्भः, नद्यम्भः इति च स्यादेव । प्रकृतिहस्वयोर्नित्यसमासे निषेध इति वार्तिकम्, भाष्ये तु समासमात्रे निषेधः । चन्द्रस्यापि मतमेतत् । अनुपसर्गस्येति किम् ? अध्यच्छति, अध्यास्ते, अन्वस्यति ।। २८।

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452