Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 422
________________ ३३५ प्र०-५ १० १७७ पप परिशिष्टम् -३ ११७. शेषो गतायाः प्रहरी निशाया आगामिनी यः प्रहरश्च तस्याः । दिनस्य चत्वार इमे च यामाः कालं बुधा ह्यद्यतनं वदन्ति ।। प्र०-३८ ११८. श्रीमत्रिलोचनकृताखिलपञ्जिकायां दोषान्धकारनिकरं प्रतिपक्षदत्तम् । निःसार्य सत्पथगतेरपि दर्शकोऽयं कामं भविष्यति मदीयकलापचन्द्रः ।। १० ११९. श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमम् । संक्षेपाद् रचयिष्यामि कातन्त्रात् शार्ववर्मिकात् ।। १२०. श्रीविद्याभूषणाचार्यसुषेणेन विनिर्मितः । आस्तां कलापचन्द्रोऽयं कालापानां मनोमुदे ।। १२१. श्रुतिमात्रेण यत्रास्य तादर्थ्यमवसीयते । तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम् ।। १२२. श्लोकान्यमूनि दश पर्वतराजपुत्र्या ।। १२३. संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ।। ३५,४४ १२४. संवर्धितः पितृभ्यां य एकः पुरुषशावकः। पुंस्कोकिलः स विज्ञेयः परपुष्टो न कर्हिचित् ।। प्र०-१४, २२७ १२५. संसारतिमिरमिहिरं महेशमजमक्षरं हरिं नत्वा | विविधमुनितन्त्रदृष्टं ब्रूमः कातन्त्रपरिशिष्टम् ।। प्र०-२६,२९१ १२६. संहितैकपदे नित्या नित्या धातूपसर्गयोः । सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ।। ८५,१६१ १२७. सन्धिमात्रं न जानासि माशब्दोदकशब्दयोः ।। प्र०-१ १२८. सन्ध्यादिक्रममादाय यत् कलापं विनिर्मितम् । मोदकं देहि देवेति वचनं तन्निदर्शनम् ।। १२९. समालम्बितकौपीनसत्करण्डकशोभिना । तृकाराकारदण्डेन धर्मावासमुपागतः ।।

Loading...

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452