Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 423
________________ प्र०-२८ ३३० कातन्त्रव्याकरणम् १३०. समीक्ष्य तन्त्राणि मया मुनीनां यदत्र भाष्यादिविरुद्धमुक्तम् । न तद् विमृश्यं कृतिभिर्मुनीनां साधारणी वाचि खलु प्रतिष्ठा ।। ३२० १३१. सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते ।। १७४,१८६ १३२. सर्वत्रेप्सितकार्येषु नतिरादौ प्रशस्यते ।। ११ १३३. सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् ।। १३४. सहेतुकमिहाशेषं लिखितं साधु सङ्गतम् । अतः शृण्वन्तु धीमन्तः कौतुकोत्तालमानसाः ।। १३५. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ।। १३६. साहचर्याच्चवर्गस्य क्विबन्तेन दृगादिना | अज्झलादौ न गत्वं स्याज्ज्ञापकं च सिजाशिषोः ।। १३७. सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ तेन वक्तव्यः संबन्धः सप्रयोजनः ।। १३८. सुराजितहियो यूनां तनुमध्यासते स्त्रियः । तनुमध्याः क्षरत् स्वेदमुराजितमुखेन्दवः ।। १३९. सुषामादिगणे पाठान्मूर्धन्यो गोष्पदे भवेत् । प्रतिष्कशे रथस्पायामपि चान्द्ररयं मतः ।। १४०. सूचीकटाहन्यायेन पूर्वं सन्धिर्निगद्यते | ततश्चतुष्टयः पश्चादाख्यातमिति सङ्गतिः।। १४१. सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महादानी सैष भीमो महाबलः ।। १४२. स्वकृतश्च परोक्तश्च पुराणोक्तश्च स त्रिधा | वाग्रूपोऽपि नमस्कार उत्तमाधममध्यमाः ।। २०९ ३१० ३१६ ११ २८०,३००

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452