________________
२९८
कातन्त्रव्याकरणम्
२९८
२७. ऋत्यनित्यसमासेऽनुपसर्गसमानस्य ह्रस्वश्च उपसर्गादन्यस्य यः समानस्तस्य ऋकारे परे नित्यसमासादन्यत्र वाक्ये विकल्पसमासे च यथासम्भवं ह्रस्वः प्रकृतिश्च भवति वा । दाम ऋच्छति, दामर्छति । माला ऋच्छति, माल ऋच्छति, मालर्छति । ग्राम ऋषभः, ग्रामर्षभः । शाला ऋक्षः, शाल ऋक्षः, शालक्षः | उच्चरितरुचिरऋचाञ्चाननाञ्चतुर्णाम् । हिमऋतावपि ताः स्म भृशस्विद इति च । महाऋषिः, महऋषिः, महर्षिः |.स्तृ ऋच्छौ, स्तृऋच्छौ स्तृच्छौं । गम्ल ऋच्छौ, गम्लुच्छौ । इह ऋकारोऽपि दीर्घ इति तन्त्रान्तरम्, तदा गम्लृच्छौ ।
टुकारेऽपि स्मरन्त्येके- कन्यालृकारः, कन्यल्कारः, कन्यलृकारः । नित्यसमासे निषेधः किम् ? अश्वी , बडवी । अनुपसर्गस्येति किम् ? प्रार्च्छति, परार्छति । समानस्येति किम् ? गवृणम्, नावृणम् । पदान्तस्येव पितॄन् । अवार्थं सवर्णार्थं च वचनम् ।। २७।।
२८. तौ नामिनोऽसवणे अनुपसर्गसमानस्य नामिनोऽसवणे स्वरे परतो नित्यसमासादन्यत्र प्रकृतिर्दीर्घस्य हस्वश्च वा भवति । दधि अत्र, दध्यत्र । मधु अत्र, मध्वत्र । नदी अत्र, नदि अत्र, नद्यत्र । नामिनः इति किम् ? ममेष्टिः, कन्येहते । समानस्येति किम् ? श्रिया इन्दुः, पाणावाद्यम् । पदान्तस्येत्येव । नद्यौ, वध्वौ । असवर्ण इति किम् ? वारीहसे, मधूर्ध्वम् । कथं वारि ईहसे, मधु ऊर्ध्वम् ? सन्धिर्हि संहिता । स तु पदयोर्विभाषित एव । संहिताश्रयत्वाच्च सन्धयोऽभिधीयन्ते समानदीर्घादयः । अतस्ते संहितायामेव स्युः । सप्तम्या निर्दिष्टे वर्णाव्यवाये विधिराश्रीयते, न तु कालाव्यवाये । तथा च असंहितायामपि सप्तम्या निर्दिष्टे विध्यन्तराणि स्युः । प्रकरणमिदं तु संहितायामेव विसन्ध्यर्थम् । ___ नित्यसमासे निषेधः किम् ? साध्वृच्छी, कुट्यर्थः, जान्वर्थः । नित्यग्रहणाद् नदि अम्भः, नदी अम्भः, नद्यम्भः इति च स्यादेव । प्रकृतिहस्वयोर्नित्यसमासे निषेध इति वार्तिकम्, भाष्ये तु समासमात्रे निषेधः । चन्द्रस्यापि मतमेतत् । अनुपसर्गस्येति किम् ? अध्यच्छति, अध्यास्ते, अन्वस्यति ।। २८।