________________
२९९
कातन्त्रपरिशिष्टम्
२९. इतावुञोऽनुनासिकदीर्घश्च अनुबन्धस्तन्त्रान्तरप्रसिद्ध्या निपातग्रहणार्थः । उजो निपातस्येतौ परतोऽनुनासिकदीर्घः प्रकृतिश्च भवति वा । ऊँ इति, उ इति, विति । दीर्घग्रहणं समानस्थान्यर्थम् । अह उ, अहो इति प्रकृतिरेव स्यात् ।।२९।।
___३०. वर्गाद् वा स्वरे स्वरवत् वर्गात् परस्योञः स्वरे परे वा वकारो भवति । वाग्वस्ति, वागु अस्ति । दृषवर्ध्वम्, दृषदु ऊर्ध्वम् । वाग्वुच्चैः, वागु उच्चैः । पचन्न्वीहते, पचन्नु ईहते । सुगण्ण्वुदके, सुगणु उदके ।क्रुविन्द्रः, क्रुङ् इन्द्रः । किम्वीहसे, किमु ईहसे ।स्वरत्वाद् ङणना द्विर्भवन्ति । मोऽनुस्वारश्च न स्यात् । संयन्तिवदिहापि प्राप्नोति ।।३०।
३१. स्वरजौ य्वावनादिस्थौ लोप्यौ व्याने 'वा' न वर्तते । स्वरे जातौ = स्वरजौ । तौ यकारवकारौ पदान्तावनादिस्थौ व्यञ्जने परे लोप्यौ भवतः । नद्या ऊः नद्यूः । तस्येहा, नद्वीहा । ऊरिति अवतेर्वेजो वा क्विपि रूपम् । अभ्यू आगच्छति, अभ्वागच्छति । प्रत्यू आगच्छति प्रत्वागच्छति । अभिप्रत्योरूशब्देनाव्ययीभावः । पटुश्चासाविश्चेति पट्विः, तस्योत्सवः पट्युत्सवः। साधु इ आस्ते साध्यास्ते । स्वरजाविति किम्? किंय् ह्यो भूतम्, किंव् ह्वलयति । य्वाविति किम् ? होत्र्युदयः । अनादिस्थाविति किम्? किंय् वृतः, व्युपधः । व्यञ्जन इति किम्? नधुदकम्, वध्वीहा | पदान्तावित्येव राय्यन्तः, नाव्यन्तः । केचिदिदं शार्ववर्मिके द्वितीयसन्धौ पठन्ति ।।३१।
३२. अवर्णात् क्विपोऽनघोषे प्रकृतिश्च ___ अवर्णात् परौ क्विबन्तस्य यौ य्वौ तौ पदान्तौ स्वरे घोषवति च लोप्यौ भवतः, तस्मिंश्च सति प्रकृतिश्च भवति । अश्वयुजं मूलवृश्चमाचष्टे इतीन्, ततः क्विप्अश्वगच्छति, मूलगच्छति |अश्वभ्याम्, मूलभ्याम् ।अश्व अग्रे, मूल अग्रे |अनघोष इति किम् ? अश्वय् चरति, मूलव् खनति । अश्वय् यु, मूलव् यु । इह सुपः षत्वं वक्ष्यते । पदान्तावित्येव- अश्वयौ, मूलवौ ।। ३२।
३३. चर्करीताभ्यासस्य चर्करीतमिति चेक्रीयितलुकि धातोः संज्ञा, तस्याभ्यासस्य स्वरे प्रकृतिर्भवति । अरिअर्ति,अरीअर्ति |अरिआरयति,अरी आरयति । भाषायामपि केचित् चर्करीतमिच्छन्ति ।