________________
३००
कातन्त्रव्याकरणम् उक्तं हि भाष्ये – 'भाषायामपि यङो लुगस्तीति' । निर्झरवृत्तौ चोक्तम्-'भाषायामपि यङो लुगस्तीति' । लुगधिकारे “यङो बहुलम्" इति चान्द्रे च पठ्यते । काशिकायामपि 'छन्दोऽनुवृत्तिरिह नेष्टा' इत्युक्तम् । 'जाघटीति' इति जाम्बवतीविजयकाव्ये। 'जाज्वलीति' इति नीतिसंग्रहे। 'शंशमाञ्चक्रुः' इति भट्टिकाव्ये च पठ्यते । भागवृत्तिकारस्तु बोभवीत्येव न छान्दसम् इति मन्यते । तितउरिति तनोर्डितउप्रत्यये विधानात्, औणादिकबाहुलकाद् वा अकारस्य प्रकृतिः ।।३३।
३४. शिट्यघोषे विसर्जनीयस्य शिट्परेऽघोषे विसर्जनीयस्य प्रकृतिर्भवति । कः त्सरुकः, कः क्षाम्यति, कः प्साति, सर्पिः प्सानम्, धनुःक्षणनम्, निःक्षणनम्, दुःक्षणनम्, बहिःक्षणनम् । पुंनिर्दुर्बहिरित्यादिना मूर्धन्योऽपि नेति मतम् ।।३४।
__३५. प्रशामस्तथयोः ___ तथयोः परयोः प्रशामः प्रकृतिर्भवति । प्रशान् तरति, प्रशान् थुडति । तथयोरिति किम् ? प्रशाँल्लुनाति, प्रशाञ्शेते ।।३५ ।
३६. नस्य धुट्परयोः प्रथमद्वितीययोः धुट्परयोः प्रथमद्वितीययोः परतो नकारस्य प्रकृतिर्भवति । भवान्त्सरति, भवान्थ्सरति । नृन् प्साति, नृन् फ्साति ।।३६।।
३७. समो राजि क्वी राजतौ क्विबन्ते समो मकारस्य प्रकृतिर्भवति। सम्राट्, सम्राजौ । क्वाविति किम् ? संराजति ।। ३७।
३८. एतो द्वित्वे द्विवचनस्यैकारस्य स्वरे प्रकृतिर्भवति । अनेकवर्णद्विवचनार्थमिदम् । ब्रुवाते अत्र यजावहे इह । एत इति किम् ? यजावहायत्र ।।३८।
३९. नादसः अदसोऽकि सति द्विवचनस्य इतः स्वरे प्रकतिर्न भवति । अमुकेऽत्र | एत इति किम् ? अमू अत्र | मादुत्वे कादेत् परिशिष्यते ।।३९ ।