________________
कातन्त्र परिशिष्टम्
४०. मणीवादिषु च
मणीवादिषु च द्विवचनस्य प्रकृतिर्न भवति । मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम (मभार० १२।१७१ ।१२) । रोदसीव, दम्पतीव, जम्पतीव, भार्यापतीव, वाससीव । इवार्थे वनिपातोऽस्त्येव । यथा 'प्रशस्तिलिखितानि व केशिदन्तक्षतानि कादम्बखण्डितदलानि व पङ्कजानि' । इवे प्रकृतिरनिष्टेत्यारम्भः ।
मणी भार्यापती चैव दम्पती रोदसी तथा । वाससी जम्पती चैवमिमे जायापती तथा । इवेऽन्यैरिह पठ्यन्ते पेचुषीप्रभृतीन्यपि ॥
कश्चित् त्रिमुनिसमुपेक्षणान्नेदमाद्रियते ॥ ४० । ४१. सस्य पादपूरणे
पादपूरणे कर्तव्ये सस्य प्रकृतिर्न भवति । पादोऽत्र पद्यस्थ तुर्यो भागः । सैष दाशरथी रामः सैष राजा युधिष्ठिरः ।
सैष विप्रो दयाशीलः सैष योगीश्वरो विभुः ॥
तन्त्रान्तरवृत्तिकारास्तु ऋचामेव पादेऽस्य वृत्तिं मन्यन्ते । आर्षप्रयोगास्तु यथाकथंचिद् विधेयाः = नित्यत्वेन संग्रहणीया इत्याहुः । तथा च एषस्यापि दृश्यते'एषैष रथमारुह्य मथुरां याति माधवः' । न्याय्यञ्चैतत् स्मृत्यन्तरे 'प्राक् छन्दसि' इति श्रुतेः । तदिहापि वाक्यमिदम् ऋषिप्रयोगेष्वेव स्मर्तव्यम् ||४१ |
४२. इतौ तु प्लुतस्य
इतौ तु परतः प्लुतस्य प्रकृतिर्न भवति । एहीह ब्राह्मणेति । श्रुतत्वात् प्लुतनिबन्धनस्यैवायं प्रतिषेध इति । द्वित्वे तु प्रकृतिः स्यादेव । आगच्छतं भोः कवी इति । तुनिपातो विशेषद्योतनार्थस्तेन छान्दसानुकरणप्लुतस्येती प्रकृतिरेव - युष्मे इति ॥ ४२ ॥
३०१
४३. इतो वा
इकारस्य प्लुतस्येतौ प्रकृतिर्भवति वा । एहीह ब्राह्मणीति, एहीह ब्राह्मणि इति । चाक्रवर्मणस्य तु मते सर्वप्लुतानामितौ विकृतिरेवेति तु भाष्यम् || ४३ |