________________
३०२
कातन्त्रव्याकरणम् ४४. प्रथमस्य पञ्चमो मिप्रत्यये प्रत्यये मकारे प्रथमस्य पदान्तस्य पञ्चमो भवति नित्यम् । वाङ्मयम्, मृन्मयम् पदान्तत्वान्न णत्वम् । ईण्मान्, अम्मयम् । गरुत्मानिति वक्ष्यते ।।४४।
४५. टवर्गस्य नवतिनगर्योर्नश्च णः टवर्गस्य नवतिनगर्योः परयोः पञ्चमस्तयोर्नकारस्य णश्च भवति । षण्णवतिः, षण्णगरी, सुगण्णवतिः, सुगण्णगरी | ‘नस्य णः' इति पठन्त्येके । तेषां तृतीयपञ्चमी स्तः । स्त्रीनिर्देशः किम्? षड्नगरम्, सुगनगरम् ।।४५ ।
४६. वाऽनुनासिके न द्विः प्रथमस्य पदान्तस्य प्रथमस्यानुनासिके वा पञ्चमो भवति, तस्य द्विर्भावश्च न भवति । स्वरयवलाः सानुनासिका निरनुनासिकाश्च । तत्रैषामानुनासिक्यम् आन्तरतम्याद् विशेषविधानाद् वा न सर्वत्र । दृहूँ इति, दृD इति । विनूँ इति, विहूँ इति । तनूँ इति, तद् इति । कश्चिद् अविशेषेण यवलानामानुनासिक्यमिच्छन् ‘दृङ् याँता, दृङ् वाता, दृङ् लाँता' इत्युदाहरति, तदा नेष्टं वार्त्तिकादौ । चान्द्रे तु विधिरेवैष नाद्रियते ।।४६।
४७. मनोरनुस्वारपूर्वः एतदधिक्रियते ।।४७।
४८. कानोऽभ्यासस्य सः अभ्यासो द्विरुक्तपूर्वभागः | कानित्यस्य द्विरुक्तपूर्वभागम्य यो नकारस्तस्यानुस्वारपूर्वः सकारो भवति । कांस्कान् ब्रूते । वीप्सायां द्विर्वचनम् | अभ्यासस्येति किम् ? वृषान् कान् कान् नेष्यति ग्रामान् ।।४८ ।
४९. वा सुटि समः समो मकारस्य सुटि परतोऽनुस्वारपूर्वः सकारो भवति वा । संस्कर्ता, संस्स्कर्ता । इह वाग्रहणमनार्षमित्येके । तदसत् । उक्तं हि भाष्ये – समो मलोप इत्येके इति । स च लोपोऽनुस्वारपूर्वोऽनुनासिकपूर्वश्चेति व्याख्यातव्यम् अपरैः । शाकटायनस्तु पक्षे समो मलोपमात्रमाह-सस्कर्ता । ततः पक्षेऽत्र समो मलोपोऽप्येष्टव्यः ।समो मकारस्यानुस्वारानुनासिकाभ्यां द्वे रूपे,सस्याभावे चानुस्वारेणैकम्, तेषु त्रिषु । तस्मात् तयोरिति कस्य वा