________________
कातन्त्रपरिशिष्टम्
३०॥ द्वित्वे षट् । तत्र रेफाद् वा द्वित्वे द्वादश रूपाणि । शाकटायनोक्ते च समो मलोपमात्रे सस्कर्तेत्यादिना पुनश्चत्वारीति षोडश । सस्याभावेऽप्यनुस्वारवदनुनासिकेन चत्वारीच्छन्ति । तैः सह विंशतिरूपाणि ।। ४९ ।।
५०. नृनः पे वा 'नृन्' इति लुप्तषष्ठीकं पदम् । अः इति अकार उच्चारणार्थः । नृन् इत्यस्य - नकारस्य पकारे परेऽनुस्वारपूर्वो विसर्जनीयो भवति वा । नः पुनाति, » » पुनाति, नृन् पुनाति । अनुनासिकेन च द्वे – नः पुनाति नॅण पुनाति । अतः पञ्च रूपाणि स्युः ।। ५०।
५१. पुमः प्रथमद्वितीययोरधुटि अधुट्परयोः प्रथमद्वितीययोः पुमो मकारस्यानुस्वारपूर्वो विसर्जनीयो भवति । पुंस्कारः, पुंस्केलिः, पुंस्खट्वा । पुंनिर्दुर्बहिश्चतुरामिति सत्वम् । पुंश्चाटुः, पुंश्छत्रम्, पुंष्टङ्कः, पुंष्ठकारः, सुपुंस्तरति, सुपुंस्थुडति, पुंस्पानम्, पुंस्फलम् । प्रथमद्वितीययोरिति किम् ? पुंगानम्, पुंशाला, पुंह्लादः । अधुटीति किम् ? पुंक्षीरम्, पुंप्सानम् ।। ५१।
५२. पूर्वस्य वाऽनुनासिकोऽनुस्वारेण इह योऽयमनुस्वारस्तेन सह पूर्वस्वरस्यानुनासिको वा भवति । भवाँश्चन्द्रः, भवांश्चन्द्रः । भवाँष्टङ्कः भवाष्टङ्कः । भवाँस्तुल्यः, भवांस्तुल्यः । काँस्कान्, कांस्कान् । नॅः पाहि, नृपाहि ।पुँस्केलिः, पुंस्केलिः । सँस्स्कर्ता, संस्स्कर्ता । इह सकाराप्रवृत्तिपक्षेऽपि वाऽनुनासिकमिच्छन्ति । तथा च सँस्कर्ता, संस्कर्ता इति सिद्ध्यर्थमनुस्वारपूर्वोऽनुनासिकपूर्वश्च समो मलोप इति भाष्यव्याख्या ||५२।
५३. टाच्च सस्तादिर्वा टकारान्नकाराच्च परः सकारस्तादिर्भवति वा । विट्त्साधुः, विट्साधुः । सुपि पदान्तत्वमस्त्येव । विट्सु, विट्सु । भवान्त्साधुः, भवान् साधुः ।।५३ ।
५४. णोः कटावन्तौ शषसेषु ङकारणकारयोः पदान्तयोः शषसेषु यथासङ्ख्यं कटावन्तौ वा भवतः । प्राशेते, प्राशेते | प्राङ्कण्डः, प्राङ्गण्डः । प्राङ्साधुः, प्राङ्साधुः । सुगण्टशेते,
सुगणशेते । सुगण्ट्षण्डः, सुगणषण्डः । सुगण्ट्साधुः, सुगण्साधुः । सुपि पूर्ववत् । प्राङ्घ, प्रार्छ । ङकारादपि सुपः षत्वं वक्ष्यते । सुपि वर्णग्रहणात् स्यात् । सुगण्ट्सु,